पूर्वम्: ३।२।२
अनन्तरम्: ३।२।४
 
सूत्रम्
आतोऽनुपसर्गे कः॥ ३।२।३
काशिका-वृत्तिः
आतो ऽनुपसर्गे कः ३।२।३

आकारान्तेभ्यः अनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्गे इति किम्? गोसन्दायः। वडवासन्दायः।
लघु-सिद्धान्त-कौमुदी
आतोऽनुपसर्गे कः ७९४, ३।२।३

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। (वा।) मूलविभुजादिभ्यः कः। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥
न्यासः
आतोऽनुपसर्गे कः। , ३।२।३

"अनुपसर्गे" इति। व्यत्ययेन पञ्चमीप्रसङ्गेऽपि सप्तमी। धातुविशेषणञ्चैतत्। अत एवाह-- "आकारान्तेभ्योऽनुपसर्गेभ्यः"इति च। "गोदः" इति। पूर्ववलदाकारलोपः। "पा()ष्णम्" इति। "त्रैङ पालने" (धा।पा।९६५)॥
बाल-मनोरमा
आतोऽनुपसर्गे कः ७३२, ३।२।३

आतोऽनुपसर्गे कः। पा()ष्णत्रमिति। पा()ष्णः-- पादमूलभागः। तं त्रायते विग्रहः। "त्रैङ् पालने" आत्वे कृते कः। गोसंदाय इति। अणि - आतो युक्। कविधौ सर्वत्रेति। वार्तिकमिदम्। सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः। ब्राहृज्य इति। "ज्या वयोहानौ" अस्माड्डः। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। अत्र कप्रत्यये सति कित्त्वात् "ग्रहिज्ये" ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः। सर्वत्रेति। उपसर्गे उपपदे आतोऽपि ड एव, नतु "आतश्चोपसर्गे" इति कः,"सर्वत्र" ग्रहणादित्यन्वयः। अन्यथा "अनन्तरस्य विधि"रिति न्यायात् "आतोऽनुपसर्गे"इति कं बाधित्वा ड एव। तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न। सुपि स्थः। योगो विभज्यते इति। इदं भाष्ये स्पष्टम्। तत्र "सुपी"त्यंशं व्याचष्टे-- सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, "आतश्चोपसर्गे" इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, "आतोऽनुपसर्गे कः" इत्यारम्भादिति मत्वोदाहरति-- द्वाभ्यामिति। तत इति। "सुपी"त्यंशस्य व्याख्यानान्तरं "स्थ" इत्यंशो व्याख्यायत इत्यर्थः। ननु "सुपी"त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह-- आरम्भसामथ्र्यादिति। कर्तरि "सुपि" इति पूर्वेण स्दधे "कर्तरि कृ"दिति नानुवर्तते। अनिर्दिष्टार्थत्वात् "गुप्तिज्किद्भ्यः स" नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम्। न च एवं सति "घञर्थे कविधान"मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह--- आखूनामुत्थानमाखूत्थ इति।

तत्त्व-बोधिनी
आतोऽनुपसर्गे कः ६११, ३।२।३

पा()ष्णत्रमिति। पार्ष्ण त्रायत इति। त्रैङ् पालने। गोसंदाय इति। अण्। युक्।

* कविधौ सर्वत्र प्रसारणिभ्यो डः। प्रसारणिभ्य इति। प्रसारणमिति संप्रसारणपर्यायः। जिनातीति। ज्या वनोहानौ। "क्र्यादिभ्य" इति श्नाप्रत्यये "ग्रहिज्ये" ति संप्रसारणे पूर्वरूपे "हलः" इति दीर्घे च कृते "प्वादीना"मिति ह्यस्वः। ब्राहृज्य इति। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ च "ब्राहृजिय" इति स्यात्। आह्वः प्रह्व इति। के हि सति "वचिस्वपी"त्यादिना ह्वेञः संप्रसारणे सति आहुवः प्रहुव इति स्यादिति बोध्यम्।