पूर्वम्: ३।२।७
अनन्तरम्: ३।२।९
 
सूत्रम्
गापोष्टक्॥ ३।२।८
काशिका-वृत्तिः
गापोष् टक् ३।२।८

कर्मण्यनुपसर्गे इति वर्तते। गायतेः पिबतेश्च धातोः कर्मण्युपपदे ऽनुपसर्गे टक् प्रत्ययो भवति। कस्य अपवादः। शक्रं गायति शक्रगः, शक्रगी। सामगः, सामगी। सुराशीध्वोः पिबतेरिति वक्तव्यम्। सुरापः, सुरापी। शीधुपः, शीधुपी। सुराशीध्वोः इति किम्? क्षीरपा ब्राह्मणी। पिबतेः इति किम्? सुरां पाति इति सुरापा। अनुपसर्गे इत्येव, शक्रसङ्गायः। सामसङ्गायः। बहुलं छन्दसि इति वक्तव्यम्। या बाह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति। या ब्रह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति।
न्यासः
गापोष्टक्। , ३।२।८

"लुग्विकरणालुग्विकरणयोर्लुक्विकरणस्यैव ग्रहणम्" (व्या।प।५०) इति "पा" इति पानार्थस्य ग्रहणमम्, रक्षणार्थस्य न। यद्यपि "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) उच्यते, तथापि पिबतिना साहचर्यात् "गा" इत्यस्यालुग्विकरणस्य ग्रहणम्, न गत्यर्थस्येत्याह--"गायतेः, पिबतेश्च" इति। टकः कित्करणमातो लोपार्थम्। टित्करणं ङीबर्थम्; न तु "आद्यन्तौ टकितौ" १।१।४५ इत्येवमर्थम्। कुत एतत्? आद्यन्तयोरवयवत्वात्। न च प्रत्ययोऽवयवो युज्यते, "परश्च" ३।१।२ इति वचनात्। ननु च गापोरिति षष्ठी टकोऽवयवत्वञ्च बोधयिष्यते? नैतदस्ति; पञ्चम्यर्थे त्वेषा षष्ठी, कर्त्तृविशेषणार्था वा-- गापोः कत्र्तरीति। युक्तञ्चैतत्, एवं हि प्रत्ययपरत्वं बाधितं न भवति। किञ्चादित्वे हि टकः कित्करणमनर्थकं स्यात्। पिबतेरूपपदान्तस्य निवृत्त्यर्थमाह-- "सुराशीध्वोः" इत्यादि। तत्र पिबतेरिह ग्रहणम्, न पातेरित्येतत् प्रागेव व्यवस्थापितम्। इह "विभाषा" ३।१।१४३ इत्यनुवत्र्तते, सा तु व्यवस्थितविभाषा; तेन सुराशीध्वोरुपपदयोर्भविष्यति, नान्यत्र। "क्षीरपा" इति। स्त्रीलिङ्गोदाहरणं स्त्रियां विशेष इति प्रदर्शनार्थम्। "बहुलम्" इत्यादि। पिबतेश्छन्दसि बहुलं टग्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु -- तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। तस्य तु फलं सुरापेति पक्षे कप्रत्ययो भवति॥
बाल-मनोरमा
गापोष्टक् ७३८, ३।२।८

गापोष्टक्। "गै शब्दे" "पा पाने" इत्यनयोः टक् स्यात्कर्मण्युपपदे। आतो युकि रूपम्। पिबतेरिति। वार्तिकमिदम्। पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः। क्षीरपेति। क्षीरं पिबतीत्यर्थे सुराशीध्वोर्नयतरत्वाऽभावात् "आतोऽनुपसर्गे कः" इति कप्रत्यये टाप्। पाति रक्षतीति। अजित्यर्थः। उद्यमनम् - उद्ग्रहणम्। अंशहर इति। अंशस्य स्वीकर्तेत्यर्थ-। भारहार इति। भारम् उद्गृह्णातीत्यर्थः। ग्रहेरुपसङ्ख्यानमिति। "अच्प्रत्ययस्ये"ति शेषः। "ग्रह उपादाने" अदुपधऋ। "गृहे"रिति पाठे तु कृतसंप्रसारणस्य इका निर्देशो बोध्यः। शक्तिग्रह इति। अकित्त्वान्न संप्रसारणम्। लाङ्गलग्रह इति। एवम् -- "अङ्कुशग्रह" इत्याद्यप्युदाहार्यम्। सूत्रे चेति। वार्तिकमिदम्। सूत्रे कर्मण्युपपदे धारणार्थकाद्ग्रहधातोजित्यर्थः।

तत्त्व-बोधिनी
गापोष्टक् ६१७, ३।२।८

गापोष्टक्। इहगामादग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं, न तु गाङ् गतौ, गा स्तुतौ इत्यनयोः, अनभिधानात्। सामगः समगीति। एतेन टकः कित्तवमालोपार्थं टित्त्वं नु ङीबर्थमिति ध्वनितम्। प्रत्ययाऽधिकाराट्टकः प्रत्ययत्वेन "प्रत्ययः" "परश्चे" ति धातोः पर एव स्यादिति "आद्यन्तौ टकितौ" इत्यस्याऽत्र आशङ्कैव नास्तीति बोध्यम्। सामसङ्गाय इति। कर्मण्यणि सति "आतो यु"गिति युक्।

*पिबतेः सुराशीध्वोरिति वाच्यम्। पिबतेरिति। "लुग्विकरणाऽलग्विकरणयोः" इति पिरभाषलभ्यार्थकथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। क्षीरं पिबतीत्यातोऽनुपसर्गे कः।

* शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसङ्ख्यानम्। शक्तीति। घटग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थं, तेन मद्रराज्ञीत्यत्र टज्न, "द्विषतीताप" इत्यत्र "द्विषत्परयो"रिति खच् नेति दिक्।