पूर्वम्: ३।४।१०
अनन्तरम्: ३।४।१२
 
सूत्रम्
दृशे विख्ये च॥ ३।४।११
काशिका-वृत्तिः
दृशे विख्ये च ३।४।११

तुमर्थे छन्दसि इत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः दृशे विश्वाय सूर्यम्। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्।
न्यासः
दृशे विख्ये च। , ३।४।११

"दृशे" इति। दृशेः केप्रत्ययः। "विख्ये" इति। विपूर्वाच्चक्षिङ ख्यातेर्वा केप्रत्ययो निपात्यते॥
बाल-मनोरमा
लिङाशिषि ६३, ३।४।११

अथाशीर्लिङि विशेषमाह--लिङाशिषि। "लि"ङिति लुप्तषष्ठीकं पदम्। तिङ्()शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते। तदाह--आशिषि लिङस्तिङिति। सार्वधातुकसंज्ञाऽपवादोऽयम्। ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति।