पूर्वम्: ३।४।११६
अनन्तरम्: ४।१।१
 
सूत्रम्
छन्दस्युभयथा॥ ३।४।११७
काशिका-वृत्तिः
छन्दस्युभयथा ३।४।११७

छन्दसि विषये उभयथा भवति, सार्वधातुकम् आर्धधातुकं च। किं लिङेव अनन्तरः सम्बध्यते? न एतदस्ति, सर्वम् एव प्रकरणम् अपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्धन्तु त्वा सुष्टुतयः। आर्धधातुकत्वाण् णिलोपः। वर्धयन्तु इति प्राप्ते। शेषं च सार्वधातुकम् स्वस्तये नावमिवारुहेम। क्तिनः सार्वधातुकत्वादस्तेर् भूभावो न भवति। लिट् सार्वधातुकम् ससृवांसो विशृण्विरे। इम इन्द्राय सुन्विरे। लिङुभयथा भवति। उप स्थेयाम शरणा वृहन्ता। सार्वधातुकत्वात् लिङः सलोपः, आर्धधातुकत्वातेत्वम्। व्यत्ययो बहुलम् ३।१।८५ इत्यस्य एव अयं प्रप्ञ्चः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थः पादः। चतुर्थो ऽध्यायः प्रथमः पादः।
न्यासः
छन्दस्युभयथा। , ३।४।११७

"{अस्तये इति मुद्रितः पाठः} स्वस्तये" इति। "अस भुवि" (धा।पा।१०६५), स्त्रियां क्तिन्। सार्वधातुकत्वादस्तेर्भूभावो न भवति। "विशृण्विरे" इति। अत्र लिटः सार्वधातुकत्वात् "श्रुवः शृ च" ३।१।७४ इति श्नुप्रत्ययः, शृभावश्च। "सुन्विरे" इति। "स्वादिभ्यः श्नुः" ३।१।७३। "उपस्थेयाम"इति। तिष्ठतेर्लिङ,यासुट्,मस्, "एतेर्लिङि" ७।४।२४इत्येत्वम्। ननु "व्यत्ययो बहुलम्" ३।१।८५ इत्यनेनैव सिद्धं सर्वमेवेदम्, किमर्थोऽयमारम्भ इत्याह-- "व्यत्ययो बहुलमित्यस्यैव" इति। गतार्थम्॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्य चतुर्थः पादः। समाप्तश्च तृतीयोऽध्यायः॥ ----------------- अथ चतुर्थोऽध्यायः