पूर्वम्: ३।४।१६
अनन्तरम्: ३।४।१८
 
सूत्रम्
सृपितृदोः कसुन्॥ ३।४।१७
काशिका-वृत्तिः
सृपितृदोः कसुन् ३।४।१७

भावलक्षणे छन्दसि ति वर्तते। सृपितृदोर् धात्वोः भावलक्षणे ऽर्थे वर्तमानयोः छन्दसि विषये तुमर्थे कसुन् प्रत्ययो भवति। पुरा क्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः।
न्यासः
सृपितृदोः कसुन्। , ३।४।१७