पूर्वम्: ३।४।२०
अनन्तरम्: ३।४।२२
 
सूत्रम्
समानकर्तृकयोः पूर्वकाले॥ ३।४।२१
काशिका-वृत्तिः
समानकर्तुऋकयोः पूर्वकाले ३।४।२१

समानः कर्ता ययोः धात्वर्थयोस् तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वा प्रत्ययो भवति। शक्तिशक्तिमतोः भेदस्य अविवक्षितत्वात् समानकर्तृकता। भुक्त्वा व्रजति। पीत्वा व्रजति। द्विवचनमतन्त्रम्। स्नात्वा पीत्वा भुक्वा व्रजति। समानकर्तुऋकयोः इति किम्? भुक्तवति ब्राह्मणे गच्छति देवदत्तः। पूर्वकाले इति किम्? व्रजति च जल्पति च। आस्यं व्यादाय स्वपिति चक्षुः संमील्य हस्ति इत्युपसंख्यानम् अपूर्वकालत्वात्।
लघु-सिद्धान्त-कौमुदी
समानकर्तृकयोः पूर्वकाले ८८२, ३।४।२१

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥
न्यासः
समानकर्त्तृकयोः पूर्वकालेः। , ३।४।२१

धात्वधिकाराद्धात्वर्थस्यैव समानकर्त्तृकत्वं विज्ञायत इत्याह-- "समानः कत्र्ता ययोर्धात्वर्थयोःट इत्यादि। निर्धारणे चेयं षष्ठी। समानशब्दश्चायमेकवाची। ननु शक्ति कारकम्, अन्या च पूर्वकालक्रियायाः, तत्कुतः समानकर्त्तृकत्वं विज्ञायते? इत्याह-- "शक्तिशक्तिमतोः" इत्यादि। शक्तिः शक्तिमाँश्च शक्तिशक्तिमन्तौ। यश्च शक्त्याधारो या च शक्तिस्तयोरिह भेदो न विवक्षितः। तेन शक्त्याधार एक एव देवदत्तः कत्र्ता, स चोभयोरपि क्रिययोरेक एवेति युक्तं समानकर्त्तृकत्वम्। "पीत्वा" इति। पूर्ववदीत्वम्। इह "समानकर्त्तृकयोः" इति द्विर्वचनेन निर्देशः कृतः तेन द्वे एव क्रिये प्रत्युपस्थास्येते, न बह्व्यः, ततश्च द्वयोरेव क्रिययोः प्रत्युपस्थापितयोः स्यात्, न बह्वीषु? इत्याह-- "द्विवचनम्" इत्यादि। क्रियाप्रधानत्वादस्य निर्देशस्य। नात्र द्विवचनं प्रधानम्; नान्तरीयकत्वात्। तेन द्विवचनेन निर्देशः कृतः। अवश्यं येन केनचिद्वचनेन निर्देशः कत्र्तव्यः, तस्मादतन्त्रत्वाद्()द्विवचनस्य, बह्वीष्वपि क्रियासु भवत्येव। "भुक्तवति ब्राआहृणे व्रजति" सिति। अत्र भुजिक्रियाया ब्राआहृणः कत्र्ता, व्रजतिक्रियायास्तु देवदत्त इति समानकर्त्तृकत्वाभावः। "व्रजति जल्पति च" इति। यौगपद्यादिह क्रियायाः पूर्वकालता नास्ति। "व्यादाय" इति। ददातेव्र्याङपूर्वस्य रूपम्। "सम्मील्य" इति। "मील स्मील क्ष्मील निमेषणे" (धा।पा।५१७,५१९,५२०) इत्यस्य सम्पूर्वस्य हेतुमण्ण्यन्तस्य। किं पुनः कारणं न सिध्यीत्याह-- "अपूर्वकालत्वात्ुपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- पूर्वयोगाच्चकायोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन मुखं व्यादाय स्वपितीत्यादौ पूर्वकालत्वाभावेऽपि भविष्यतीति॥
तत्त्व-बोधिनी
समानकर्तृकयोः पूर्वकाले १५८९, ३।४।२१

समानकर्तृक। इह धात्वधिकारेऽपि समानकर्तृकत्वं क्रिययोरेव सम्भवतीत्याशयेनाह-- धात्वर्थयोरिति। निर्धारणे षष्ठी सप्तमी वा। धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादित्यर्थः। एवं च निर्धारणविभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहित्वद्योतिकेति फलितम्। क्त्वा स्यादिति। स च भावे, "अव्ययकृत" इति वचनात्। भावोऽपि घञादाविव नेह सिद्धावस्थः, किन्तु साद्यावस्थः। स च धातुनैव लब्धः। क्वाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं, धातुसंबन्धादिकारात्। संसर्गश्चेह सामानाधिकरण्यं , पूर्वोत्तरकालत्वं च। नत्र संसर्गविशेषतात्पर्यग्राहकः क्त्वाणमुलादयः। अत्र च "समानकर्तृकयो"रिति सूत्रांशेन सामानाधिकरण्यमुपनिबद्धम्, दातूपात्तव्यापराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक्। द्वित्वमिति। नन्वमीषां ब्राआहृणानां पूर्वमानयेत्युक्ते मध्यमो नानायीते, तथेहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्त्वाप्रत्ययो न स्यादिति चेदत्राहुः-- इहाप्याख्यातवाच्या क्रिया प्रधानं,तां प्राति क्त्वान्तोपस्थिताः क्रियाः सर्वा एव विशेषणं, न तु तासां परस्परसंबन्धः, "गुणानां च परार्थत्वा"दित न्यायात्। अतएव स्नात्वा पीत्वा भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति। "स्वरतिसूती" त्यादिना विकल्पे प्राप्ते नित्यार्थमाह--स्वरत्यादेरिति।