पूर्वम्: ३।४।२५
अनन्तरम्: ३।४।२७
 
सूत्रम्
स्वादुमि णमुल्॥ ३।४।२६
काशिका-वृत्तिः
स्वादुमि णमुल् ३।४।२६

समानकर्तृकयोः पूर्वकाले कृञः इति च अनुवर्तते। स्वादुमि इत्यर्थग्रहणम्। स्वाद्वर्थेषु उपपदेषु कृञो णमुल् प्रत्ययो भवति। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारं भुङ्क्ते। लवणङ्कारम्। स्वादुमि इति मकारान्तनिपातनम् ईकाराभावार्थम्, च्व्यन्तस्य अपि मकारार्थं दीर्घाभावार्थं च। अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते। वासरूपेण क्त्वा अपि भवति, स्वादुं कृत्वा भुङ्क्ते। तुमर्थाधिकाराच् च सर्व एते भावे प्रत्ययाः। यद्येवम्, स्वादुङ्कारं भुङ्क्ते देवदत्तः इति णमुला कर्तुरनभिहितत्वात् कर्तरि कस्मात् तृतीया न भवति? भुजिप्रत्ययेन अभिहितः कर्ता, न च अस्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्य्ते, समानकर्तृकत्वं हि विरुध्यते। प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत् प्रकाशते।
न्यासः
स्वादुमि णमुल्। , ३।४।२६

"स्वादुमीत्यर्थग्रहणम्()" इति। ननु च "स्वं रूपं शब्दस्याशब्दसंज्ञा" (१।१।६८) इति वचनात् स्वरूपस्यैव ग्रहणेन भवितव्यम्? नैतदस्ति; शब्दानुशासनप्रस्तावादेव हि शब्दस्येति सिद्धे शब्दग्रहणं यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्रते नार्थपरनिर्देश इति ज्ञापनार्थं कृतम्, इह चार्थपरो निर्देशः। तस्मादर्थग्रहणमेव युक्तम्। अर्थपरत्वं तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। अर्थग्रहणे च सति तत्पर्यायेष्वपि प्रत्ययो लभ्यत इत्याह-- "स्वाद्वर्थेषु" इत्यादि। अथ "स्वादुमि" इति किमर्थं मकारान्तत्वं निपात्यते, मान्तस्योपपदस्य श्रवणं यथा स्यादिति चेत्? न; यद्येतत्प्रोयजनम्, न निपातयितव्यम्, अनन्तरसूत्रे खमुञः प्रकृतत्वात् स एव विधास्यते। अ()स्मश्च विहिते मुमैव मान्तत्वमुपपदस्य भविष्यतीत्येतच्चोद्यमापाकर्त्तुमाह--"स्वादुमि"इत्यादि। एतेनैतद्दर्शयति--यद्यपि खमुञि सति सिध्यति मकारान्तत्वम्, ईकारप्रतिषेधस्तु न सिध्यति, ततश्च स्वदुशब्दादुपपदात् "वोतो गुणवचनात्" ४।१।४४ इति ङीष् प्रसज्येत्, तथा चानिष्टं रूपं स्यात्। माकारान्तत्वनिपातने हि निमित्तस्य विहितत्वान्ङीष्प्रसङ्गो नास्ति। तस्माद्योऽपि खमुञं विदधाति तेनाप्यवश्यमीकारप्रतिषेधार्थं मकारान्तं निपातयितव्यमिति। यद्यपि परस्याभिमतम्-- "खमुञि विहिते मुमैव मकारान्तत्वं भविष्यति" इति, तदपि न सर्वत्रेति सूचयितुमाह-- "च्व्यन्तस्य" इत्यादि। अनेनैतद्दर्शयति-- यदि मकारान्तत्वं न निपात्येत, तदा सत्यपि खमुञि मकारान्तत्वं च्व्यन्तस्योपपदस्य न स्यात्; तस्याव्ययत्वात्। मुम्()विधौ च "खित्यनव्ययस्य" ६।३।६५ इत्यधिकारात्। तस्माद्योऽपि खमुञं विदधाति तेनापि मकारान्तत्वनिपातनं कत्र्तव्यम्। एवं हि मकारान्तत्वनिपातनमेव क्रियताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधातव्यः? अशक्यः खमुञ् विधातुम्; खमुञ्प्रत्यये हि मकारान्तत्वनिपातनमव्ययार्थं विज्ञायते,ततश्च "च्वौ च" ६।३।६३ इति दीर्घत्वं स्यादेव। णमुलि सति सर्वविधयपवादस्तु विज्ञायेत, तेन दीर्घत्वमपि न भवति। अवश्यञ्चोत्तरार्थं णमुल् विधेयः, न च तस्मिन्नुत्तरत्र विधीयमाने लाघवं भवति, नापीह गौरवम्। क्व पुनरर्थ एते प्रत्या भवन्तीत्याह-- "तुमरोथाधिकाराच्च" इत्यादि॥ "एते" इति। ये तुमर्थधिकारे विहिताः। "यद्येवम्" इति। यदि तुमर्थे भवन्तीत्यर्थः। "भुजिप्रत्ययेन" इत्यादि। यद्यपि णमुलाऽनभिहितः कत्र्ता, तथापि भुजिप्रत्ययेन लटाभिहित इति न भवितव्यं तृतीयया। ननु च शक्तिलक्षणः कत्र्ता, अन्या च स्वादुकरणविषया शक्तिः, अन्या च भुजिक्रियाविषया, तत्र लटाभिहितायामपि भुजिक्रियाविषायायां शक्तावितरस्याः शक्तेः कर्त्तृसंज्ञाया अनभिधानात् {प्राप्नोतीत्येव-मुद्रितः पाठः} प्राप्नोत्येव तृतीयेत्याह-- "न चास्मिन्" इत्यादि। अत्र हि समानकर्त्तृकप्रकरणे शक्तमतः शक्तीनाञ्च भेदो न विवक्ष्यते। तेन शक्तिमान् देवदत्तः कत्र्ता। स चैक एवाभिहितश्चेति कुतस्ततीयाप्रसङ्गः। किं कारणं भेदेनोपादानं न विवक्षितम्? इत्याह-- "समानकर्त्तृकत्वे हि" इत्यादि। अभ्युपगम्यापि भेदविवक्षाम्, परिहारान्तरमाह-- "प्रधानशक्त्यभिधाने" इत्यादि। किं कृतः पुनरत्र कर्त्तृशक्त्योः प्रधानगुणभावः? क्रियाकृतः; स्वादुङ्कारं हि गुणभूतम्, भुजिक्रियार्थत्वात्। भुजिक्रिया तु प्रधानम्; तेनोपकार्यत्वात्। क्रियायाश्च गुणप्रदानभावात् तद्विषययोरपि कर्त्तृशक्त्योः प्रधानगुणभावो भवति। तत्र प्रधानशक्तावभिहितायामप्रदानशक्तिरभिहितत्वात् प्रकाशते = प्रतिभासते; प्रधानानुयायित्वाद्()गुणानाम्। तेन तृतीया न भवतीति भावः॥
तत्त्व-बोधिनी
स्वादुमि णमुल् १६११, ३।४।२६

स्वादुमि। "स्वांदुमी"त्यर्थग्रहणं, व्याख्यातम्। तदाह-- स्वाद्वर्थेष्विति। मान्त्तवमिति। ननु "स्वादौ" इत्येव सूत्रमस्तु, मास्त्वत्र णमुल्। खमुञेवानुवर्त्त्यताम्। "अरुर्द्विष"दिति मुम्भविष्यति। एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम्। च्व्यन्तस्य मुम्न स्यात्, अनव्ययस्येति वचनात्, ततश्च स्वादुङ्कारमित्यत्र "च्वौ चे"ति दीर्घः स्यात्, "सम्पन्नङ्कारः" मित्यादिषु "अस्य च्वौ" इतीत्वं स्यात्। किं च स्त्रियां "वोतो गुणवचना"दिति ङीषि स्वाद्वीकारमिति स्यादतोऽत्र स्वादुमिति रूपं निपात्यते। ततश्चानजन्तत्वान्नेत्त्वदीर्घौ, न वा ङीष्। निपातनमिह भावप्रत्ययमात्रविषकम्। तेन स्वादुङ्कृत्वेत्यपि सिध्यति। स्यादेतत्-- उक्तदोषपरिहाराय "स्वादुमी"त्येव सूत्रमङ्गीक्रियतां, णमुल्तु त्यज्यतां, कृञः खमुञि कृतेषऽपि "स्वादुङ्कार"मित्यादिरूपसिद्धरिति चेन्मैवम्। तथा सत्युत्तरसूत्रेषु सन्निहितत्वात् खमुञेवाऽनुवर्तत इति कन्यादर्शनं ब्राआहृणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक्।