पूर्वम्: ३।४।८६
अनन्तरम्: ३।४।८८
 
सूत्रम्
सेर्ह्यपिच्च॥ ३।४।८७
काशिका-वृत्तिः
सेर् ह्यपिच् च ३।४।८७

लोटः इत्येव। लोडादेशस्य सेः हि इत्ययम् आदेशो भवति, अपिच् च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि।
लघु-सिद्धान्त-कौमुदी
सेर्ह्यपिच्च ४१७, ३।४।८७

लोटः सेर्हिः सोऽपिच्च॥
न्यासः
सेह्र्रपिच्च। , ३।४।८७

"लुनीहि" इति। पित्त्वे प्रतिषिद्धे "सार्वधातुकमपित्" १।२।४ इति ङित्त्वम्, ततस्तन्निबन्धनं "ई हल्यघोः" ६।४।११३ इतीत्वं भवति। "राघ्नुहि" इति। "राध साध संसिद्धौ" (धा।पा।१२६२), १२६३) स्वादित्वात् श्नुः। अत्रापि पूर्ववन्ङित्वने सति गुणो न भवति। अथ किमर्थं गुरु सूत्रं क्रियते, न "से र्हि ङिच्च" इत्येवोच्येत? नैवं शक्यम्; ङित्त्वस्य विधाने स्थानिवद्भावातम् पित्त्वं स्यादेव। ततश्च ङित्त्वान्ङित्कार्यं गुणनिषेधादिकं स्यात्, पित्त्वाच्चानुदात्तत्वम्। तस्माद्यथान्यासमेवास्तु॥
बाल-मनोरमा
सेह्र्रपिच्च ५०, ३।४।८७

सेह्र्रपिच्च। "हि" इति लुप्तप्रथमाकम्। "लोटो लङ्व"दित्यतो "लोट" इत्यनुवर्तते। तदाह--लोटः सेरिति। स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम्। एवञ्च ङिद्वत्त्वात्क्ङतिचेति गुणो न। "सेर्हर्हिङिच्चे"त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः। भव हि स्थिते--

तत्त्व-बोधिनी
सेह्र्रपिच्च ३९, ३।४।८७

सोऽपिच्चेति। एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तु "स्थानेऽन्तरतमः" इत्यनुदात्तो न भवति, "जहि शत्रून्ट, "स्तुहि श्रुतम्॥