पूर्वम्: ४।१।१०३
अनन्तरम्: ४।१।१०५
 
सूत्रम्
अनृष्यानन्तर्ये बिदादिभ्योऽञ्॥ ४।१।१०४
काशिका-वृत्तिः
अनृष्यानन्तर्ये बिदाऽदिभ्यो ऽञ् ४।१।१०४

गोत्रे इत्येव। बिदादिभ्यो गोत्रापत्ये अञ् प्रत्ययो भवति। बैदः। और्वः। ये पुनरत्र अनृषिशब्दाः पुत्रादयस्तेभ्यो ऽनन्तरापत्ये एव भवति। पौत्रः। दौहित्रः। अनृष्यानन्तर्यस्य अयम् अर्थः, अनृषिभ्यो ऽनन्तरे भवति इति। यद्ययम् अर्थः, ऋष्यपत्ये नैरन्तर्यप्रतिषेधो न कृतः स्यात्? तत्र इदं न सिध्यति, इन्द्रभूः सप्तमः काश्यपानाम्। अनन्तरापत्यरूपेण एव ऋष्यणाभिधानं भविष्यति। अवश्यं च एतदेवं विज्ञेयम्। ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्रः इति दुष्यति। गोत्रे इत्येव, बैदिः। ननु च ऋष्यणा भवितव्यम्? बाह्वादिः आकृतिगणः, तेन इञेव भवति। बिद। उर्व। कश्यप। कुशिक। भरद्वाज। उपमन्यु। किलालप। किदर्भ। विश्वानर ऋष्टिषेण। ऋतभाग। हर्यश्व। प्रियक। आपस्तम्ब। कूचवार। शरद्वत्। शुनक। धेनु। गोपवन। शिग्रु। बिन्दु। भाजन। अश्वावतान। श्यामाक। श्यमाक। श्यापर्ण। हरित। किन्दास। वह्यस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध। रथान्तर। रथीतर। गविष्ठिर। निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। परस्त्री परशुं च।
लघु-सिद्धान्त-कौमुदी
अनृष्यानन्तर्ये बिदादिभ्योऽञ् १०१९, ४।१।१०४

एभ्योऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥
न्यासः
अनृष्यानन्तर्ये बिदादिभ्योऽञ्। , ४।१।१०४

"ये पुनरत्रानृषिशब्दाः" इत्यादि। ननु च सूत्रे आनन्तर्यशब्दो भावप्रत्ययान्त उपात्तः,तत्रैवं विवरितव्यम्-- ये पुनरत्रानृषिशब्दाः पुत्त्रादयस्तेभ्योऽपत्यानन्तर्य एव भवति? नैतदस्ति; न ह्रयं भावे ष्यञ् विहितः, किं तर्हि? स्वार्थ एव, चातुर्वण्र्यवत्; अन्यथापत्यस्य धर्म आनन्तर्ये प्रत्ययः धर्म आनन्तर्ये प्रत्ययः स्यात्, नापत्ये, तत्रेष्यते च। कथं पुनर्गोत्राधिकारे सत्यनुषिभ्योऽनन्तरापत्य एव प्रत्ययो लभ्यते? अत्र गोत्रग्रहणं निवत्र्तते। ऋषिशब्देभ्योऽनन्तरापत्य एव स्वदित्यत आह-- "अनृष्यानन्तर्य इत्यस्यायम्" इत्यादि। "यद्ययमर्थः" इत्यादि। अस्मिन् ह्रर्थे सत्यनृष्यानन्तर्य इत्येतद्विष्यर्थ भवति; अनृषेरनन्तरापत्ये प्रत्ययविधानात्। ततश्च ऋष्यपत्य आनन्तर्येप्रतिषेधो न कृतः स्यादित्याह-- "ऋषिशब्दोऽत्रऋषिजातावृषित्वे वत्र्तते। "अपत्येषु नैरन्तर्यम्" इति। "सप्तमी" २।१।३९ इति योगविभागात्समासः। पश्चादृषेरपत्यनैरन्तर्यमिति षष्ठीसमासः। तदायमर्थो भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यविषयेऽञः प्रतिषेधो न कृतः स्यात्। अथ वा-- ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्यं तद्विषये प्रतिषेधोऽञः प्रत्ययस्य न कृतऋ स्यादित्यर्थः। ततर् को दोषः? इत्याह-- "तत्रेदम्" इत्यादि। सप्त काश्यपा ऋषयोऽपत्यापत्यवत्सम्बन्धेन परसप्रं सम्बद्धाः, येषां मित्त्रहूर्नाम काश्यपः सप्तमः, तेषामुषित्वस्यापत्येषु नैरन्तर्यम्। तत्र ऋष्यपत्यानां वा नैरन्तर्ये विषयेऽञः प्रतिषेध इष्यते,काश्यपानामित्येतद्रूपं यथा स्यात्। अञि सति तस्य बहुषु लोपाभावात् काश्यपानामिति प्राप्नोति। स च प्रतिषएधोऽस्मिन्नर्थे सति न प्राप्नोति, ततश्च काश्यपानामिति न सिध्यति। तस्मात् "अनृष्यानन्तर्ये" इत्यस्य ऋष्यपत्यनैरन्तर्येण न भवतीत्येषोऽर्थो विज्ञायत इत्यभिप्रायः। "अनन्तरापत्यरूपेणैव" इति। न चात्र गोत्रापत्यं विवक्षितम्। किं तर्हि? किं तर्हि? अनन्तरापत्यम्। अतोऽनन्तरापत्यरूपेणैव ऋष्यणा ऋष्यन्धकादिषु ४।१।११४ विहितेन काश्यपानामित्यभिधानं भविष्यति। एतदेव द्रढयितुमाह-- "अवश्यञ्च" इत्यादि। ऋष्यपत्यं नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः। ऋषित्वस्यापत्येषु ऋष्यपत्यानां वा यन्नैररन्तर्य तद्विषये प्रतिषेधे विज्ञायमान इत्यर्थः। "कौशिको वि()आआमित्र इति दुष्यति" इति। किं कारणम्? वि()आआमित्रस्तपस्तेपे-- नानृषिः स्यामिति, तत्रभवानृषिः सम्पन्नः,स पुनस्तपक्षेपे --नानृषेः पुत्त्रः स्यामिति, तत्रभवान् गाधिरपि ऋषिः सम्पन्नः; स पुनस्तपस्तेपे-- नानृषेः पौत्रः स्यामिति; तत्रभवान् कुशिकोऽपि ऋषिः सम्पन्नः। तदेतद्भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यम्ृष्यपत्यानां वानन्तर्यम्। ततश्च ऋष्यपत्यनैरन्तर्ये न भवतीत्येवं विज्ञायमाने कौशिको वि()आआमित्र इति न सिध्यति। "परस्त्री परशुञ्च" इति।परस्त्रीशब्दः प्रत्ययमुत्पादयति परेशुभावञ्चापद्यते। परस्त्रिया अपत्यं पारशवः॥
बाल-मनोरमा
अनृष्यानन्तर्ये बिदादिभ्योऽञ् १०९०, ४।१।१०४

अनृष्यानन्तर्ये। "अनृषी"ति लुप्तपञ्चमीकम्। बिदादिभ्योऽञिति द्विरावर्तते। तथा च "अनृष्यानन्तर्ये विदादिभ्योऽ"ञिति कृत्स्नमेकं वाक्यं। "बिदादिभ्योऽ"ञिति वाक्यान्तरं। तत्र द्वितीयं वाक्यं व्याचष्टे--एभ्योऽञ्गोत्रे इति। गोत्रे विवक्षिते विदादिभ्योऽञ्स्यादित्यर्थः।

अथ प्रथमं वाक्यं कृत्सनसूत्रं व्याचष्टे--ये त्विति। अनृषिभ्यो विदादिभ्योऽनन्तरापत्येऽञ्स्यादित्यक्षरार्थः। विदादौ हि ऋषयोऽनृषयश्च पठिताः। तत्र येऽनृषयस्तेभ्योऽनन्तरापत्येऽञिति फलितमिति भावः। नन्वानन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह--सूत्रे स्वार्थे ष्यञिति। "अनन्तरशब्दा"दिति शेषः। चतुर्वर्णादित्वादिति भावः। बिदस्य गोत्रापत्यं बैद इति। बिदस्य ऋषित्वात्ततो गोत्र एवाऽञिति भावः। ऋष्यणोऽपवादः। स्वरे विशेषः। नन्वनन्तरापत्येऽञभावे इञपवाद ऋष्यणेवोचित इति कथमनन्तरो वैदिरित्यत आह--बाह्वादेरिति। बिदादिगणस्थादनृषेरनन्तरात्येऽञमुदाहरति--पौत्रो दौहित्र इति। पुत्रस्यानन्तरापत्यमिति, दुहितुरनन्तरापत्यमिति च विग्रहः। यथायथमणिञोपरपवादेऽञ्।

तत्त्व-बोधिनी
अनृष्यानन्तर्ये बिदादिभ्योऽञ् ९११, ४।१।१०४

अनृष्या। "अनृषी"ति पञ्चम्याः सौत्रो लुक्। अनृषिभ्य इत्यर्थः। सूत्रे इति। आनन्तर्य [इत्यत्र] इत्यर्थः। स्वार्थ इति। चातुर्वण्र्यादेराकृतिगणत्वादिति भावः। बैदिरित्यत्र ऋष्यणमाशङ्क्याह---बाह्वादेरिति। बिद, उर्व, कश्यप,, कुशिक, भरद्वाज, उपमन्यु, वि()आआनर, "परस्त्री परशुं च" इत्यादि।