यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणम् एतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ् कारीषगन्ध्या। वाराह्या। बालाक्या। षाच् च यञः। षात् परो यो यञ् तदन्ताच् चाप् वक्तव्यः। शार्कराक्ष्या। अपुतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारो ऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति।
पकारोऽत्र "ङ्याप्प्रातिपदिकात्"
४।१।१ इत्यत्र सामान्यग्रहणार्थः,चकारस्तदविघातार्थः, एवमुभयोरन्यत्र चरितार्थयोः "अनुदात्तौ सुप्पितौ"
३।१।४ इत्येतद्बाधित्वा परत्वात् "चितः"
६।१।१५७ इत्यन्तोदात्तत्वं चापो भवति। "ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्" इति। विशेषकरानुबन्धानुत्सृज्य यत्सामान्यं यङमात्रं तस्येदं ग्रहणम्। कथं पुनः सामान्यग्रहणं युज्यते; यावता ञ्यङ एव तत्र ग्रहणं युक्तम्, तथा हि-- सोऽपत्ये विधीयमानः स्त्रीत्वं वक्तुमसमर्थ इति स्त्रीप्रत्ययमपेक्षते, न तु ष्यङ,
तस्य स्त्रियामेव विधानात्? नैतदस्ति; यदि हि सामान्यग्रहणं न स्यात् ष्यङो ङित्करणमनर्थकं स्यात्। तस्य ह्रत्र सूत्रे सामान्यग्रहणेव प्रयोजनम्, नान्यत किञ्चित्। तस्मात् ङित्करणसामथ्र्यात् ष्यङोऽपि ग्रहणं भवति। "आम्बष्ठ()आ" इत्यादि। आम्बष्ठसौवीरकोसलशब्देभ्योऽपत्येऽर्थे "वृद्धेत्कोसलाजादाञ्ञ्यङ्"
४।१।१६९ इति ञ्यङ्, तदन्ताच्चाप्। "कारीषगन्ध्या" इति। एतत् स्वादिसूत्रे
४।१।२ व्युत्पादितम्। "वाराह्रा" इति। वराहशब्दात् "अत इञ्"
४।१।९५। "बालाक्या" इति। बलाकाशब्दाद्बाह्वादिलक्षम इञ्। उभयत्र "अणिञोरनार्षयोः"
४।१।७८ इत्यादिना ष्यङादेशः, तदन्ताच्चाप्।
"शार्कराक्ष्या" इत्यादि। शर्कराक्षपूतिमाषगोरक्षशब्देभ्यो गर्गादियञन्तेभ्यश्चाप्॥
यङश्चाप्। पकारो "हल्ङ्याब्भ्यः" इत्यत्र ग्रहणार्थः। चकारः "चितः" इत्यन्तोदात्तार्थः। सामान्येति। यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः। ञ्यङमुदाहरति--आम्बष्ठ()एति। आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः। "वृद्धेत्कोसले"ति ञ्यङ्। आम्बष्ठ()शब्दाच्चाप्। ष्यङमुदाहरति--कारीषगन्ध्येति। करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः। "उपमानाच्चे"ति गन्धस्य इकारोऽन्तादेशः। करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः। "अणिञोरनार्षयोः" इति तस्य ष्यङादेशः।
षाद्यञ इति। षकारात्परो यो यञतदन्तादपि चाबित्यर्थः। शार्कराक्ष्येति। शर्कराक्षस्यापत्यं स्त्रीत्यर्थः। पौतिमाष्येति। पूतिमाषस्यापत्यं स्त्रीत्यर्थः। "गर्गादिभ्यो य"ञित्युभयत्र यञ्।
यङ्श्चाप्। पकारोऽत्र "हल्ङ्याबि"ति सामान्ग्रहणार्थः। चकारस्य तदविघातेन चरितार्थत्वेऽपि परत्वाच्चित्स्वरः पित्स्वरं बाधते। आम्बष्ठ()एति। आम्बष्ठस्यापत्यं स्त्री। "वृद्धेत्कोशला----"इति ञ्यङ्। कारीषगन्ध्येति। करीषस्येव गन्धोऽस्य करीषगन्धिः। "उपमानाच्चे"ति गन्धस्येदन्तादेशः। तस्य गोत्रापत्यं स्त्री। अण्। "अणिञोरनार्षयोः----"इति ष्यङादेशः। स च यद्यपि स्त्रियामेव विहितसतथापि ङित्करणसामथ्र्यात्तदन्तादप्ययं चाप्। षाद्यञ इति। एतच्च "आवट()आच्चे"ति चकारस्यानुक्त समुच्चयार्थत्वाल्लभ्यत इत्यहुः। पौतिमष्येति। पूतिमाषशब्दो गर्गादिः।
षाद्यञश्चाववाच्यः। तद्धिताः। बहुवचनमनुक्तानामुपसङ्ग्येयानां सङ्ग्रहार्थम्। महासंज्ञाकरणं तु --तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थलाभाय। तेन यथाप्रयोगमेव स्युः। ननु टापः प्रागेवायमधिकारोऽस्तु, ष्फविधौ तद्धितग्रहणं यस्येतिलोपे, ईद्ग्रहणं च मास्त्विति चेन्मैवम्; "पठ्वी""मृद्वी"त्यादावोर्गुणपर्सङ्गात्। यदि तु "यस्येति चे"त्यत्र ईद्ग्रहणमेव ङीषि तद्धितकार्याऽभावं ज्ञापयतीति स्वीक्रियेत, तर्हि टापः प्राक्तद्धिताधिकारेऽपि न कश्चिद्दोष इथि केचित्। तच्चिन्त्यम्। "कुरु"रित्यादौ ओर्गुणादिप्रसङ्गादिति नव्याः।