पूर्वम्: ४।२।१६
अनन्तरम्: ४।२।१८
 
सूत्रम्
दध्नष्ठक्॥ ४।२।१७
काशिका-वृत्तिः
दध्नष् ठक् ४।२।१८

दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग्वहतेः ठकं वक्ष्यति, तेन एव सिद्धम्? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतम् एव उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते।
न्यासः
शूलोखाद्यत्। , ४।२।१७

न्यासः
दध्नष्टक्। , ४।२।१७

ठकं वक्ष्यति-- "संस्कृतम्" ४।४।३ इत्यनेन। "तेनैव सिद्धम्" इति।यद् दध्नि संस्कृतं तद् दध्ना हि संस्कृतं भवतीत्यभिप्रायः। "इह रदध्यधिकरणमाधारभूतम्" इति। यथा शूले संस्क्रियमाणस्य मांसस्य शूलम्। न हि शूलेन मांसस्य कश्चित् संस्कार क्रियते, अपि तु लवणादिना। आधारभावमात्रं तु मांसस्य शूलं प्रतिपद्यते। यदि तर्हि दधि केवलमाधारभूतम्, केन तत्र तर्हि संस्कारः क्रियते इत्याह-- "द्रव्यान्तरेण" इत्यादि।
बाल-मनोरमा
दध्नष्ठक् १२००, ४।२।१७

दध्नष्ठक्। सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः। अणोऽपवादः। दाधिकमिति। ठकि इकादेशे "यस्येति चे"ति इकारलोपः। इह दध्नि अधिकरणे संस्कारो लवणादिना भवति। प्राग्वहतेरित्यत्र तु "संस्कृतम्" इति तृतीयान्ताठ्ठग्वक्ष्यते।

तत्त्व-बोधिनी
दध्नष्ठक् ९९३, ४।२।१७

दध्नष्ठत्। दध्नीति। संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम्। यस्तु "प्राग्वहते"रित्यत्र "संस्कृत"मिति ठग्वक्ष्यते स तृतीयान्तद्बोध्यः। तेन दध्ना संस्कृतमपि दाधिकमेव।