पूर्वम्: ४।३।१५१
अनन्तरम्: ४।३।१५३
 
सूत्रम्
प्राणिरजतादिभ्योऽञ्॥ ४।३।१५२
काशिका-वृत्तिः
प्राणिरजताऽदिभ्यो ऽञ् ४।३।१५४

प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश्च अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादिनाम् अपवादः। अनुदात्तादेः अञ् विहित एव परिशिष्टम् इह उदाहरणम्। प्राणिभ्यस्तावत् कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः राजतम्। सैसम्। लौहम्। रजतादिषु ये ऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्यो ऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थम्। रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदास। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः।
न्यासः
प्राणिरजतादिभ्योऽञ्। , ४।३।१५२

"अणादीनामपवादः" इति। आदिशब्देन मयट् परिगृह्रते। बहुवचनं तु पूर्ववत्। तत्र ये प्राणिशब्दा आद्युदात्तास्तेभ्योऽणपवाद इति। ये तु वृद्धास्तेभ्यो मयट् परिगृह्रते। रजतादिष्वपि यदाद्युदात्तं तस्मादणोऽपवादः। यत्पुनरनुवात्तादि तस्मान्मयटः। ततो हि "अनुदात्तादेश्च" ४।३।१४२ इत्यनेनैवाञि सिद्धे पुनर्वचनमञेव यथा स्यात्, "मयड्वैतयोः" ४।३।१४१ इत्यादिना मयड् मा भूदित्येवमर्थम्। तत्र "रजतं" घृतादिपाठादन्तोदात्तम्। "सीस, लोह" इति। "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तम्। अस्यायमर्थः-- नपुंसकविषयस्य शब्दस्यानिसन्तस्यादिरुदात्तो भवतीति। नबिति नपुंसकस्य संज्ञा। अन्त्यात् पूर्वमित्यनुवत्र्तमाने "शिशृमानोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च" (फि।सू।३।६४) इत्युदुम्बरेऽन्त्यात् पूर्वमक्षरमुदात्तम्। नीलदारुरोहितबिभीतक-- इत्येतेषां "लघावन्ते" (फि।सू।२४२) इत्यादिना मध्यादात्तत्वम्। पीतदारुशब्दमपि केचित् पठन्ति। स "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तः। "तरतेर्ड्रिः" (पं।उ।५।६६) इति ड्रिप्रत्ययान्तत्वात् त्रिशब्दस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। त्रयः कण्टका अस्येति बहुव्रीहिः। "बहुव्रीहौ प्रकृत्या पूर्वपदम्" ६।२।१ इति त्रिकण्टकशब्द आद्युदात्तः। "{कण्वं प्रांउ।पाठः} कण्टं करोतीति कर्मण्यण्। "{कण्वकार प्रांउ।पाठः} कण्टकारशब्दः कृत्स्वरेणान्तोदात्तः॥
बाल-मनोरमा
प्राणिरजतादिभ्योऽञ् १५११, ४।३।१५२

प्राणिरजतादिभ्योऽञ्। शौकंबाकमिति। शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः। "प्राणिना कुर्पूर्व"मित्याद्युदात्तत्वात् "अनुदात्तादेश्चे"त्यञो न प्राप्तिः। राजतमिति। अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः।

तत्त्व-बोधिनी
प्राणिरजतादिभ्योऽञ् ११७५, ४।३।१५२

प्राणि। अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं। तदाह---शौकं बाकमिति। शुकबकशब्दौ "प्राणिनां कुपूर्वाणा"मित्याद्युदात्तौ। राजतमिति। रजत सीस उदुम्बर कण्ट कारेत्यादयो रजतादयः। तेषु अनुदात्तादीनां पुनः पाठो मयड्बाधनार्थः। अन्यथा हि परत्वान्मयट् स्यादेव।