पूर्वम्: ४।३।५३
अनन्तरम्: ४।३।५५
 
सूत्रम्
दिगादिभ्यो यत्॥ ४।३।५४
काशिका-वृत्तिः
दिगादिभ्यो यत् ४।३।५४

दिशित्येवम् आदिभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणश्छस्य च अपवादः। दिशि भवम् दिश्यम्। वर्ग्यम्। मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यम् इति। दिश्। वर्ग। पूग। गण। पक्ष। धाय्या। मित्र। मेधा। अन्तर। पथिन्। रहस्। अलीक। उखा। साक्षिन्। आदि। अन्त। मुख। जघ्न। मेघ। यूथ। उदकात् संज्ञयाम्। न्याय। वंश। अनुवंश। विश। काल। अप्। आकाश। दिगादिः।
लघु-सिद्धान्त-कौमुदी
दिगादिभ्यो यत् १०९६, ४।३।५४

दिश्यम्। वर्ग्यम्॥
न्यासः
दिगादिभ्यो यत्। , ४।३।५४

"अणश्छस्य चापवादःर" इति। यद्दिगादिषु वृद्धं वाप्यादि ततश्छस्यापवादः, शेषेभ्यस्त्वणः प्राग्दीव्यतीयस्य। अथ मुखजघनयोश्च किमर्थः पाठो दिगादिषु , यावता शरीरावयवात् ताभ्यामुत्तरसूत्रेणैव (४।३।५५) भविष्यति? इत्याह-- "मुखजघनयोः" इति। सेनावयववाचिनौ हि यौ मुखजघनशब्दौ तौ शरीरवयववाचिनौ न भवतः। पाणिपादाद्यवयवस्वभावं हि शरीरम्, न चैवमात्मिका सेना; किं तर्हि? रथादिसमुदायात्मिका। "उदकात्संज्ञायाम्" इति। उदकशब्दात् संज्ञायां गम्यमानायां यद्भवति-- उदक्या स्त्री, रजस्वलोच्यते। न चात्र प्रकृत्यर्थः प्रत्ययार्थो वा विद्यते। सा च तयोरविद्यमानता संज्ञाग्रहणेन विज्ञायते। संज्ञायामन्यत्र-- औदको मत्स्य इति, अत्राणेव भवति॥
बाल-मनोरमा
दिगादिभ्यो यत् १४०८, ४।३।५४

दिगादिभ्यो यत्। "भव इत्यर्थे सप्तम्यन्तेभ्यः" इति शेषः। दिश्यमिमि। दिशि भवमित्यर्थः।

तत्त्व-बोधिनी
दिगादियो यत् ११०६, ४।३।५४

दिगादिभ्यो। "दिश्, वर्ग, पूग, पक्ष, रहस्, उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ,यूथ, "उदकात्संज्ञायां"न्याय, वंश, काल्येत्यादि दिगादिः। मुखजघनयोः पाठोऽत्राऽशरीरावयवार्थः। सेनाया मुखे जघने च भवं----मुख्यम्। जघन्यम्।