पूर्वम्: ५।१।४९
अनन्तरम्: ५।१।५१
 
सूत्रम्
वस्नद्रव्याभ्यां ठन्कनौ॥ ५।१।५०
काशिका-वृत्तिः
वस्नद्रव्याभ्यां ठन्कनौ ५।१।५१

वस्नद्रव्यशब्दाभ्याम् द्वितीयासमर्थाभ्यां यथासङ्ख्यं ठन् कनित्यैतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु। वस्नं हरति वहति वा वस्निकः। द्रव्यकः।
न्यासः
वस्नद्रव्याभ्यां ठन्कनौ। , ५।१।५०

पूर्वेण ठकि प्राप्ते तदपवादौ ठन्कनौ विधीयते॥
बाल-मनोरमा
वस्नद्वव्याभ्यां ठन्कनौ १६९४, ५।१।५०

वस्नद्रव्याभ्याम्। तद्धरतिवहत्वायवहतीत्यनुवर्तते इत्यभिप्रेत्याह--वस्नं हरतीत्यादि।

तत्त्व-बोधिनी
वस्नद्रव्याभ्यां ठन्कनौ १३१०, ५।१।५०

वस्निक इति। वस्नं---मूल्यम्।