पूर्वम्: ५।२।१०७
अनन्तरम्: ५।२।१०९
 
सूत्रम्
केशाद्वोऽन्यतरस्याम्॥ ५।२।१०८
काशिका-वृत्तिः
केशाद् वो ऽन्यतरस्याम् ५।२।१०९

केशशब्दाद् वः प्रत्ययो भवति मत्वर्थे अन्यतरस्याम्। ननु च प्रकृतम् अन्यतरस्यां ग्रहणम् अनुवर्तत एव? मतुप् समुचायार्थं तदित्युक्तम्। अनेन तु इनिठनौ प्रप्येते। ततश्चातूरूप्यं भवति, केशवः, केशी, केशिकः, केशवानिति। वप्रकरणे ऽन्येभ्यो ऽपि दृश्यते इति वक्तव्यम्। मणिवः। हिरण्यवः। कुररावः। कुमारावः। कुञ्जावः। राजीवम्। इष्टकावः। विम्बावः। अर्णसो लोपश्च। अर्णवः। छन्दसीवनिपौ च वक्तवयौ। रथीरभून् मुद्गलानी गविष्ठौ। सुमङ्गलीरियं वधूः। वनिप् मघवानमीमहे। वकारामतुपौ च। उद्वा च उद्वती च। मेधारथाभ्यामिरन्निरचौ वक्तव्यौ। मेधिरः। रथिरः।
लघु-सिद्धान्त-कौमुदी
केशाद्वोऽन्यतरस्याम् ११९३, ५।२।१०८

केशवः। केशी। केशिकः। केशवान्। (अन्येभ्योऽपि दृश्यते)। मणिवः। (अर्णसो लोपश्च)। अर्णवः॥
न्यासः
केशाद्वोऽन्यतरस्याम्?। , ५।२।१०८

इनिठनोः प्राप्तयोर्मतुपि चेदमारभ्यते। ननु च प्रकृतमन्यतरस्यांग्रहणमस्त्येव, तत्किमर्थं पुनरिवं क्रियते? इत्याह--"ननु च प्रकृतम्()" इत्यादि। "वप्रकरणे" इत्यादि। इतिकरणो हेतौ। केशशब्दाद्यथा वप्रत्ययः, एवमन्येभ्योऽपि तथा वप्रत्ययो दृश्यते, तस्माद्वक्तव्यं व्याख्येयम्()। तथा व्याख्यानं कत्र्तव्यं यथासावन्येभ्यो भवतीत्यर्थः। तत्रेदं व्याख्यानम्()--इहापि स एव चकारोऽनुक्तसमुच्चयार्थोऽनुवत्र्तते, तेनान्येभ्योऽपि भवतीत्यर्थः।
बाल-मनोरमा
केशाद्वोऽन्यतरस्याम् १८९०, ५।२।१०८

केशाद्रोऽन्यतरस्याम्। "मत्वर्थे" इति शेषः। नन्विहाऽन्यतरस्याङ्ग्रहणं व्यर्थं, समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात्। नच महाविभाषया अपवादेन मुक्ते औत्सर्गिकस्याऽप्रवृत्तेः "पारेमध्ये षष्ठ()आ वे"त्यत्रोक्तत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यं, "प्राणिस्था"दिति सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्याऽनुवृत्त्यैव तत्सिद्धेरित्यत आह--प्रकृतेनेति। इनिठनोरिति। इनिठनोरपीत्यर्थः। अन्यथा "सिध्मादिभ्यश्चे"त्यत्रेव मतुबेव समुच्चीयेत, नत्विनिठनाविति भावः। तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह--केशव इत्यादि।

अन्येभ्योऽपीति। वार्तिकमिदम्। केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः। अर्णस इति। वार्तिकमिदम्। अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः।

अर्णव इति। अर्णः=जलम्। तत्प्रभूतमस्मिन्नस्तीति विग्रहः। इदं तु वार्तिकं भाष्ये न दृश्यते।