पूर्वम्: ५।२।११९
अनन्तरम्: ५।२।१२१
 
सूत्रम्
अस्मायामेधास्रजो विनिः॥ ५।२।१२०
काशिका-वृत्तिः
अस्मायामेधास्रजो विनिः ५।२।१२१

असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।
लघु-सिद्धान्त-कौमुदी
अस्मायामेधास्रजो विनिः ११९६, ५।२।१२०

यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥
न्यासः
रूपादाहतप्रशंसयोर्यप्?। , ५।२।१२०

"तदाहतमुच्यते" इति। आहतम्()ाहननम्(), ताडनमित्यर्थः। अतो निष्पन्नं पुरुषादिरूपम्(), तदपि कार्यै कारणोपचारादाहतमित्युच्यते। "यप्प्रकारणे" इति। यप्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यमिति अनेनास्य तु तुल्यत्वात्? तद्वदेव व्याख्यानं कत्र्तव्यम्()। चकारस्त्विह "शतसहरुआआन्ताच्च निष्कात्()" ५।२।११८ इत्यतोऽनुवत्र्तते॥
न्यासः
अस्मायामेधारुआजो विनिः। , ५।२।१२०

"यशस्वी"। "तपस्वी"। "पयस्वी"। "तसौ मत्वर्थे" १।४।१९ इति भत्वम्(), अतो भत्वाज्जशत्वं न भवति। जश्त्वेन सकारस्य दकारः प्राप्नोति, स न भवति॥
बाल-मनोरमा
अस्यमायामेधारुआजो विनिः १९०२, ५।२।१२०

अस्मायामेधा। "अ"सित्यनेन असन्तं विवक्षितम्। असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः। प्रत्यये नकारादिकार उच्चारणार्थः। यशस्वीति। "तसौ मत्वर्थे" इति भत्वान्न रुत्वमिति भावः। यशस्वानिति। "एकगोपूर्वा"दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, "तसौ मत्वर्थे" इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः। रुआग्वीत्यत्र "व्रश्चे"ति षत्वमाशङ्क्याह--क्वन्नन्तत्वादिति।

आमयस्येति। आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः।

श्रृङ्गवृन्दाभ्यामिति।

फलबर्हाभ्यामिति।

ह्मदयाच्चालुरिति। वार्तिकत्रयमिदम्। मतुप्चेति। "वक्तव्य" इति शेषः, भाष्ये तथोक्तत्वात्। चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि। तथा चाऽत्र चत्वारः प्रत्ययाः। तदाह--ह्मदयालुरित्यादि।

"शीतोष्णतृप्रेम्यस्तन्न सहते" इति वार्तिकमर्थतः सङ्गृहणाति -- शीतेति। शीत, उष्ण, तृप्र--एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृप्रः पुरोडाश इति। मन्त्रभाष्ये तथोक्तत्वादिति भावः।

हिमोच्चेलुरिति। वार्तिकमिदम्। हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः। चकार इत्।

बलादूल इति। "तन्न सहते इत्यर्थे वक्तव्य" इति शेषः। वातात्समूहे चेति। षष्ठ()न्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः।

तप्पर्वमरुद्भ्यामिति। वार्तिकमिदम्। पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः "तन्वक्तव्य" इति वृत्तिकृत्, हरदत्तश्च। प्रौढमनोरमायां तु नित्त्वं निराकृतम्। शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम्। रूढत्वादवयवार्थाऽभावान्न मतुप्।

तत्त्व-बोधिनी
अस्मायामेधारुआजो विनिः १४६२, ५।२।१२०

अस्मायामेधा। यशस्वीति। "तसौ मत्वर्थे "इति भत्वाद्रुत्वं न। यशस्वानिति। नित्यग्रहणात्पूर्वत्राऽसंबद्धमप्यन्यतरस्याङ्ग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव। "तसौ मत्वर्थे"इति सूत्रे यशस्वी यशस्वानिति भाष्योदाहरणादिति भावः। "चोः कु"रित्यनेन सिद्धे व्रश्चादिषत्वमाशङ्क्याह---क्विन्नन्तत्वादिति।

ह्मदयाच्चालुरन्यतरस्याम्। ह्मदयाच्चालुरन्यतरस्याम्। अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम्। मतुप् सर्तत्र समुच्चीयत एव। चकारस्य "चुटू"इतीत्संज्ञा। तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः।

शीतोष्णतृप्रेभ्यस्तदसहने। शीतोष्णेति। इह चालुरनुवर्तते। परुडाश इति। "न तृप्रा उरुव्यचस"मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः। माधव इति। सुब्धातुवृत्तौ स्थितमिदम्।

हिमाच्चेलुः। हिमाच्चेलुरिति। एकारदिरयं प्रत्यय इति माधवः।

बलादलः। बलादिति। सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ। तप्पर्वमरुद्भ्याम्। पित्त्वमनुदात्तत्वार्थम्। काशिकायां तु "पर्वमरुद्भ्यां तन्वक्तव्यः"इति स्थितम्। हरदत्तेनतु "त"न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम्। तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम्।