पूर्वम्: ५।२।१२२
अनन्तरम्: ५।२।१२४
 
सूत्रम्
वाचो ग्मिनिः॥ ५।२।१२३
काशिका-वृत्तिः
वाचो ग्मिनिः ५।२।१२४

वाच्शब्दात् ग्मिनिः प्रत्ययो भवति मत्वर्थे। वाग्मी, वाग्मिनौ, वाग्मिनः।
लघु-सिद्धान्त-कौमुदी
वचो ग्मिनिः ११९७, ५।२।१२३

वाग्ग्मी॥
न्यासः
वाचो ग्मिनिः। , ५।२।१२३

अथ मिनिरेव कस्मान्नोच्यते? जश्त्वे कृते वाग्ग्मीति सिध्यति; ननु च "यरोऽनुनासिकेऽनुनासिको वा" (८।४।४५) इत्यनुनासिकः प्राप्नोति? नैष दोषः; व्यवस्थितविभाषां विज्ञास्यते। एवं तर्हि गकारमधिकं कुर्वन्नेतत्? सूचवति--ग्मिनिरयमिति। यः सम्यग्बहु भावते तत्रापि वक्ष्यमाणावालजाटचौ बाधित्वा ग्मिनिरेव भवति। एवं ह्रषिकं भवति यद्यपवादविषयेऽपि क्वचिद्भवति, नान्या। एवञ्चा लजाटचौ कुत्सितं यो बहु भावते तत्रैव पारिशेष्याद्भवत इति वेदितव्यम्()॥
बाल-मनोरमा
वाचो ग्मिनिः १९०४, ५।२।१२३

वाचोग्मिनिः। वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः। अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा। वाग्ग्मीति। वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम्। प्रत्यये गकारोच्चारणं तु "प्रत्यये भाषाया"मित्यनुनासिकाऽभावार्थम्।

तत्त्व-बोधिनी
वाचो ग्मिनिः १४६४, ५।२।१२३

वाचो ग्मिनिः। इकारो नकारपरित्राणार्थः। चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वाग्ग्मिनावित्यादौ द्वयोर्गकारयोः श्रवणं भवति। द्वित्वेतु ---त्रयाणाम्। "मिनिः"इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणं, द्वित्वाऽबावे त्वेकस्यैव श्रवमं स्यात्। किंच "यरोऽनुनासिके", "प्रत्यये भाषायां नित्य"मिति वाङ्भयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति, तच्चाऽनिष्टमिति ग्मिनिः कृतः।