पूर्वम्: ५।२।१२५
अनन्तरम्: ५।२।१२७
 
सूत्रम्
अर्शआदिभ्योऽच्॥ ५।२।१२६
काशिका-वृत्तिः
अर्शाऽदिभ्यो ऽच् ५।२।१२७

अर्शसित्येवम् अदिभ्यः प्रातिपदिकेभ्यो ऽच् प्रत्ययो भवति मत्वर्थे। अर्शासि अस्य विद्यन्ते अर्शसः। उरसः। आकृतिगणश्च अयम्। यत्र अभिन्नरूपेण शब्देन तद्वतो ऽभिधानं तत् सर्वम् इह द्रष्टव्यम्। अर्शस्। उरस्। तुन्द। चतुर। पलित। जटा। घता। अभ्र। कर्दम। आम। लवण। स्वाङ्गाद्धीनात्। वर्णात्। अर्शाऽदिः।
लघु-सिद्धान्त-कौमुदी
अर्शाअदिभ्योऽच् ११९८, ५।२।१२६

अर्शोऽस्य विद्यते अर्शसः। आकृतिगणोऽयम्॥
न्यासः
अर्शाअदिभ्योऽच्?। , ५।२।१२६

यथासम्भवं मतुबादिष्वज्विधीयते। "आकृतिगणश्चायम्()" इति। अवृत्कृतत्वात्()। आदिशब्दश्चायं प्रकारे। "स्वाङ्गाद्धीनात्()" इति। हीनस्वाङ्गवृत्तेः प्रातिपदिकादज्भवति--खञ्जः पादोऽस्तीति शुक्लम्()। ननु च शुक्लशब्दो गुणवचनः, तत्राभेदोपचारेणाप्येतत्? सिध्यति? एवं तर्हि द्रव्यवृत्तेरपि वर्णवाचिनः प्रातिपदिकाद्यथा स्यादित्येवमर्थं वर्णग्रहणं कृतम्()। शुक्लगुणयुक्ताः प्रासादाः शुक्लाः, तेऽस्मिन्? सन्ति शुक्लं नगरम्()। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारोऽर्शोऽस्यास्तीति "स्वरितो वानुदात्तेऽपदादौ" ८।२।६ इति स्वरितबाधनार्थः॥
बाल-मनोरमा
अर्शाअदिभ्योऽच् १९०७, ५।२।१२६

अर्शाअदिभ्योऽच्। अर्शस्शब्द आदिरेषामिति विग्रहः। अर्शस इति। अर्शो--गुदरोगविशेषः।

तत्त्व-बोधिनी
अर्शाअदिभ्योऽच १४६६, ५।२।१२६

अर्शाअदिभ्योऽच्। इह "स्वाङ्गाद्धीना"दिति। गणे पठ()ते। खञ्जः पादोऽस्यास्तीति खञ्जः। कां चक्षुर्यस्यास्तीति काणः।