पूर्वम्: ५।२।१३१
अनन्तरम्: ५।२।१३३
 
सूत्रम्
हस्ताज्जातौ॥ ५।२।१३२
काशिका-वृत्तिः
हस्ताज् जातौ ५।२।१३३

हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तो ऽस्य अस्ति इति हस्ती। हस्तिनौ हस्तिनः। जातौ इति किम्? हस्तवान् पुरुषः।
न्यासः
हस्ताज्जातौ। , ५।२।१३२

हस्तेन हस्तमात्रं प्रतीयते, न त जातिः। पुरुषशब्दप्रयोगात्? पुरुषजातिर्गम्यते॥
बाल-मनोरमा
हस्ताज्जातौ १९१३, ५।२।१३२

हस्ताज्जातौ। हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः।