पूर्वम्: ५।२।१३८
अनन्तरम्: ५।३।१
 
सूत्रम्
अहंशुभमोर्युस्॥ ५।२।१३९
काशिका-वृत्तिः
अहंशुभमोर् युस् ५।२।१४०

अहम् इति शब्दान्तरम् अहङ्कारे वर्तते, शुभम् इत्यव्ययं शुभपर्यायः, ताभ्यां युस प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहङ्कारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः। पञ्चमाध्यायस्य तृतीयः पादः।
लघु-सिद्धान्त-कौमुदी
अहंशुभमोर्युस् ११९९, ५।२।१३९

अहंयुः अहङ्कारवान्। शुभंयुस्तु शुभान्वितः॥
लघु-सिद्धान्त-कौमुदी
इति मत्वर्थीयाः १३ ११९९, ५।२।१३९

लघु-सिद्धान्त-कौमुदी
अथ प्राग्दिशीयाः ११९९, ५।२।१३९

न्यासः
अहंशुभमोर्युस्?। , ५।२।१३९

"अहमिति शब्दान्तरम्()" इति। अस्मदः "त्वाहौ सौ" ७।२।९४ इति, त्यदाद्यत्वे च कृते यच्छब्दरूपं सम्पद्यते, तस्मादन्य एवाहमव्युत्पन्नः शब्दः, न तु तदित्येवं शब्दान्यत्वं दर्शयित्वाऽर्थान्तरं दर्शयितुमाह--"अहङ्कारे वत्र्तते" इति। "अहंयुः, शुभंयुः" इति। पूर्ववदनुस्वारपरसवर्णौ॥ इति श्रीबोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य द्वितीयः पादः * * * अथ पञ्चमोऽध्यायः तृतीयः पादः
बाल-मनोरमा
अहंशुभमोर्युस् १९२०, ५।२।१३९

अहंशुभमोर्युस्। अहंयुः पुंस्त्वमार्षम्। वटिभ इति। "वट वेष्टने"। वटनं वटिः। सोऽस्यास्तीति विग्रहः।

बाल-मनोरमा
अहंशुभमोर्युस् ४८१, ५।२।१३९

अहंशुभमोर्युस्। अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह--अहमित्यादीति। सित्त्वं पदत्वार्थम्। तेन पदत्वादनुस्वारे परसवर्णः सिध्यति।

***** इति बालमनोरमायम् मत्वर्थीयाः। *****

अथ नामधातुप्रक्रिया।

तत्त्व-बोधिनी
अहंशुभमोर्युस् ४१४, ५।२।१३९

अहंयुः। शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै।

इति तत्त्वबोधिन्यां मत्वर्थीयाः।

अथ नामधातुप्रक्रिया।