पूर्वम्: ५।२।५०
अनन्तरम्: ५।२।५२
 
सूत्रम्
षट्कतिकतिपयचतुरां थुक्॥ ५।२।५१
काशिका-वृत्तिः
षट्कतिकतिपयचतुरां थुक् ५।२।५१

डटिति अनुवर्तते,तदिह सप्तम्या विपरिणम्यते। षट् कति कतिपय चतुरित्येषां डटि पुरतस्थुगागमो भवति। कतिपयशब्दो न सङ्ख्या। तस्य अस्मादेव ज्ञापकात् डट् प्रत्ययो विज्ञायते। षण्णां पुरणः षष्ठः। कतिथः। कतिपयथः। चतुर्थः। चतुरश्छयतावाद्यक्षरलोपश्च। चतुर्णां पूरणः तुरीयः, तुर्यः।
लघु-सिद्धान्त-कौमुदी
षट्कतिकतिपयचतुरां थुक् ११८१, ५।२।५१

एषां थुगागमः स्याड्डटि। षण्णां षष्ठः। कतिथः। कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट्। कतिपयथः। चतुर्थः॥
न्यासः
षट्कतिकतिपयचतुरां थुक्?। , ५।२।५१

"तदिह सप्तम्या" इत्यादि। पूरणाधिकारे ह्रयं विधीयमानो डट्सन्नियोगन विधीयते। तत्र यद्यपि सप्तमौ नास्ति, तथापि डटि परतो विज्ञायते। तेनार्थाद्विभक्तिवपरिणामो भवतीति डडिति यद्वत्तेत तदिह सप्तम्या विपरिणम्यते। "कतिपयशब्दो न संख्या" इति। लौकिकत्वाभावात्? संख्या न भवति; लोकेऽस्य संख्यात्वेनाप्रसिद्धत्वात्। शास्त्रीयोऽपि न भवति; शास्त्रे संख्यासंज्ञाऽविधानात्()। यदि न संख्या, कंथमस्य डट्(), यत्र परतस्थुग्विधीयते? इत्याह--"तस्य" इत्यादि। यदेतड्डटि परतः कतिपयशब्दस्य थुग्विधानं तत एव ज्ञापकाड्डट्()प्रत्ययोऽस्य भवतीत्यवसीयते। "षष्ठः" इति। ष्ट्त्वम्()। टिलोपोऽत्र न भवति। थुग्विधानसामथ्र्यात्()। आगमस्य पूर्वान्तकरणं भसंज्ञार्थम्()। यदि परादिः क्रियते ततो भसंज्ञा न स्यात्(), तथा चासत्याम्(), "स्वादिष्वसर्वनामस्थाने" १।४।१७ इति पदसंज्ञा स्यात्()। ततश्च षष्ठ इत्यत्र जश्त्वं प्रसज्येत। "चतुर्थः" इति। अत्र रेफस्य "विसर्जनीयस्य सः" ८।३।३४ इति सत्वम्()। पूर्वान्ते तु संज्ञायां सत्यां न भवति॥
बाल-मनोरमा
षट्कतिकतिपयचतुरां थुक् १८२७, ५।२।५१

षट्कति। थुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्त्यादचः परः। षष्ठ इति। अपदान्तत्वात्षस्य न जश्त्वम्। चतुर्थ इति अपदान्तत्वान्न रेफस्य विसर्गः।

चतुर इति। वार्तिकमिदम्। चतुर्शब्दात्षष्ठ()न्तात्पूरणे छयतौ स्तः। आद्यक्षरस्य लोपश्चेति। "च" इति सङ्घातस्य लोपश्चेत्यर्थः।

तत्त्व-बोधिनी
षट्कतिकतिपयचतुरां थुक् १४११, ५।२।५१

षट्कति। इह षष्ठीनिर्देशबवात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्यंनानुवृत्तो डट् सप्तम्या विपरिणम्यते। तदाह---डटीति। डट एव थुट् तु न कृतः, षष्ठो षकारस्य जश्त्वुप्रसङ्गात्। चतुर्थे रेफस्य विसर्गप्रसङ्गाच्च। न चैवं "नान्ता "दिति सूत्रेऽपि डति परे मुगेव विधीयतामिति वाच्यं, पञ्चमः सप्तम इत्यादौ नलोपाऽभावापत्तेः।

चतुरश्छयता वाद्यक्षरलोपश्च। चतुरश्छयताविति। विशेषविहिताभ्यामपि छयभ्द्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामथ्र्यात्। तेन "चतुर्थ"इति सिद्धम्। आद्यक्षरेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेव्र्यञ्जनस्येत्यर्थः। "व्यञ्जनसहितस्यादेरच"इति व्याख्याने तु द्विर्वचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः। "आदेव्र्यञ्जनस्ये"ति व्याख्याने प्रमाणं तु ----"द्वितीयतृतीये"

ति सूत्रे "तुर्याणी"ति निर्देशो बोध्यः।