पूर्वम्: ५।२।५६
अनन्तरम्: ५।२।५८
 
सूत्रम्
षष्ट्यादेश्चासंख्याऽ‌ऽदेः॥ ५।२।५७
काशिका-वृत्तिः
षष्ट्यादेश् च असङ्ख्यादेः ५।२।५८

षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति। विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेः इति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः।
न्यासः
षष्ट�आदेश्चासंख्यादेः। , ५।२।५७

प्राक्शतात्? षष्ट()आदायो विज्ञेयाः। शतादीनां स्वशब्देन तमटो विधानात्()॥
बाल-मनोरमा
षष्ठ�आदेश्चाऽसङ्ख्यादेः १८३४, ५।२।५७

षष्ठ()आदेश्चासह्ख्यादेः। सङ्ख्यापूर्वपदात्पष्ट()आदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। विंशत्यादिभ्यः" इति विकल्पस्याऽपवादः। एकषष्टः एकषष्टितम इति। सङ्ख्यादित्वान्नित्यस तमटोऽभावे "विंशत्यादिभ्यः" इति डटस्तमड्विकल्पः। तमडभावे डटि "यस्येति चे"ति इकारलोपे "एकषष्ट" इति रूपम्। ननु केवलसात्षष्ट()आदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपि "ग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति। तेन "विंशत्यादिभ्यः" इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम्। एवंच "एकान्नविंशतितमः" इत्यपि सिद्धम्।

तत्त्व-बोधिनी
षष्ट�आदेश्चाऽसङ्ख्यादेः १४१५, ५।२।५७

षष्ट()देश्चेति। "विशत्यादिभ्यः"इति विकल्पे प्राप्ते नित्यार्थोऽमारम्भः। सङ्ख्यादेस्त्विति। एतच्च प्राक्शताब्दोध्यम्, "नित्यं शतादी"त्युक्तत्वात्। मतौ छः। मत्वर्थ इति। मतोर्विषय इत्यर्थः। तेन "त"दिति प्रथमा समर्थविभक्तिः, "अस्याऽस्मि"न्निति प्रत्ययार्थश्चेह लभ्यते।