पूर्वम्: ५।२।५९
अनन्तरम्: ५।२।६१
 
सूत्रम्
विमुक्तादिभ्योऽण्॥ ५।२।६०
काशिका-वृत्तिः
विमुक्ताऽदिभ्यो ऽण् ५।२।६१

मतौ इत्येव, अध्यायानुवाकयोः इति च। विमुक्तादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति मत्वर्थे अध्यायानुवाकयोरभिधेययोः। विमुक्तशब्दो ऽस्मिन्नस्ति वैमुक्तो ऽध्यायः अनुवाको वा। दैवासुरः। विमुक्त। देवासुर। वसुमत्। सत्वत्। उपसत्। दशार्हपयस्। हविर्द्धान। मित्री। सोमापूषन्। अग्नाविष्णु। वृत्रहति। इडा। रक्षोसुर। सदसत्। परिषादक्। वसु। मरुत्वत्। पत्नीवत्। महीयल। दशार्ह। वयस्। पतत्रि। सोम। महित्री। हेतु। विमुक्तादिः।
न्यासः
विमुक्तादिभ्योऽण्?। , ५।२।६०

पूर्वेण च्छे तस्य च पक्षे लुकि प्राप्ते विमुक्तादिभ्योऽण्विधीयते॥
बाल-मनोरमा
विमुक्तादिभ्योऽण् १८३७, ५।२।६०

विमुक्तादिभ्योऽण्। वैमुक्त इति। विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः।