पूर्वम्: ५।२।७२
अनन्तरम्: ५।२।७४
 
सूत्रम्
अनुकाभिकाभीकः कमिता॥ ५।२।७३
काशिका-वृत्तिः
अनुकाभिकाभीकः कमिता ५।२।७४

अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं चनिपात्यते। अनुकामयते अनुकः। अभिकः। अभीकः।
न्यासः
अनुकाभिकाभीकः कमिता। , ५।२।७३

"अनुकः" इति। अनुशब्दात्? कन्()। "अभिकोऽभीकः" इति। अत्राप्यभिशब्दात्()॥
बाल-मनोरमा
अनुकाऽभिकाऽभीकः कमिता १८५०, ५।२।७३

अनुकाभिका। अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्।

तत्त्व-बोधिनी
अनुकाऽभिकाऽभीकः कमिता १४२५, ५।२।७३

अनुका। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः। अन्वभिभ्यां कन्निति। क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः।