पूर्वम्: ५।२।७६
अनन्तरम्: ५।२।७८
 
सूत्रम्
स एषां ग्रामणीः॥ ५।२।७७
काशिका-वृत्तिः
स एषां ग्रामणीः ५।२।७८

स इति प्रथमासमर्थातेषाम् इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानः, मुख्यः इत्यर्थः। देवदत्तः ग्रामणीः एषाम् देवदत्तकाः। ब्रह्मदत्तकाः। ग्रामणीः इति किम्? देवदत्तः शत्रुरेषाम्।
न्यासः
स एषां ग्रामणीः। , ५।२।७७

बाल-मनोरमा
स एषां ग्रामणीः १८५४, ५।२।७७

स एषा ग्रामणीः। ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः। देवदत्तो मुख्य एषामिति। एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम्। "ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु" इत्यमरः। त्वत्काः मत्का इति। त्वमहं वा मुख्य एषामिति विग्रहः। "प्रत्ययोत्तरपदयोश्चे"ति त्वमौ श्रृङ्खलमस्य। करभ इति। षष्ठ()र्थे सप्तमी। "बन्धन"मिति करणे ल्युट्। अस्य करभस्य श्रृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः। श्रृङ्खलक इति। श्रृङ्खलेन बद्ध इति यावत्। करभः=बाल उष्ट्रः।