पूर्वम्: ५।३।१०७
अनन्तरम्: ५।३।१०९
 
सूत्रम्
अङ्गुल्यादिभ्यष्ठक्॥ ५।३।१०८
काशिका-वृत्तिः
अङ्गुल्यादिभ्यष् ठक् ५।३।१०८

अङ्गुल्यादिभ्यः इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीव आङ्गुलिकः। भारुजिकः। अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः।
न्यासः
अङ्गुल्यादिभ्यष्ठक्?। , ५।३।१०८

बाल-मनोरमा
अङ्गुल्यादिभ्यष्ठक् , ५।३।१०८

अङ्गुल्यादिभ्यष्ठक्। इवे इत्येव। अङ्गुलीवेति। अङ्गुलिशब्दात् कृदिकारादक्तिनः" इति ङीष्। आङ्गुलिक इति। पूर्ववद्विशेष्यनिघ्नता। भारूजिक इति। पूर्ववद्विशेष्यनिघ्नता।