पूर्वम्: ५।३।१०९
अनन्तरम्: ५।३।१११
 
सूत्रम्
कर्कलोहितादीकक्॥ ५।३।११०
काशिका-वृत्तिः
कर्कलोहितादीकक् ५।३।११०

कर्कलोहितशब्दाभ्याम् इवार्थे ईकक् प्रत्ययो भवति। कर्कः शुक्लो ऽश्वः, तेन सदृशः कार्कीकः। लौहितीकः स्फटिकः। स्वयमलोहितो ऽप्युपाश्रयवशात् तथा प्रतीयते।
न्यासः
कर्कलोहितादीकक्?। , ५।३।११०

"इमथ" इति। इमेतीदमा समानार्थं प्रकृत्यन्तरमस्ति। तत इदं प्रत्ययविषानम्()॥
बाल-मनोरमा
कर्कलोहितादीकक् , ५।३।११०

कर्कलोहितादीकक्। कर्कः शुक्लोऽ()आ इति। अ()आउपर्यायेषु "सितः कर्कः" इत्यमरः। लौहितीकः स्फटिक इति। जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः।