पूर्वम्: ५।३।२५
अनन्तरम्: ५।३।२७
 
सूत्रम्
था हेतौ च च्छन्दसि॥ ५।३।२६
काशिका-वृत्तिः
था हेतौ च च्छन्दसि ५।३।२६

किंशब्दाद् धेतौ वर्तमानात् था प्रत्ययो भवति, चकारात् प्रकारवचने छन्दसि विषये। हेतौ तावत् कथा ग्रामं न पृच्छसि। केन हेतुना न पृच्छसि इत्यर्थः। प्रकारवचने कथा देवा आसन् पुराविदः। विभक्तिसंज्ञायाः पूर्णो ऽवधिः।
न्यासः
था हेतौ च च्छन्दसि। , ५।३।२६