पूर्वम्: ५।३।४२
अनन्तरम्: ५।३।४४
 
सूत्रम्
अधिकरणविचाले च॥ ५।३।४३
काशिका-वृत्तिः
अधिकरणविचाले च ५।३।४३

सङ्ख्यायाः इत्येव। अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनम्। एकस्य अनेकीकरणम् अनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकम् एकधा कुरु।
न्यासः
अधिकरणविचाले च। , ५।३।४३

बाल-मनोरमा
अधिकरणविचाले च , ५।३।४३

अधिकरणविचाले च। अधिकरणं--द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम्। तदाह--द्रव्यस्येति। सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च। आद्ये उदाहरति--एकं राशिंपञ्चधा कुर्विति। द्वितीये तु "अनेकमेकधा कुर्वि" त्युदाहार्यम्। इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः।

तत्त्व-बोधिनी
अधिकरणविचाले १४८९, ५।३।४३

अधिकरणविचाले च। अधिकरणं=द्रव्यं, विचलनं विचालः=अन्यथाकरणम्। णिजन्तादेरच्। तच्चेह संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे---द्रव्यस्येत्यादिना। संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम्। तत्राद्ये उदाहरणम्----एकं राशिं पञ्चधेति। पञ्च राशीन्कुर्वित्यर्थः। द्वितीये तु---"अनेकं एकधा कुर्वि"त्युदाहर्तव्यम्। इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः।