पूर्वम्: ५।३।७०
अनन्तरम्: ५।३।७२
 
सूत्रम्
अव्ययसर्वनाम्नामकच् प्राक् टेः॥ ५।३।७१
काशिका-वृत्तिः
अव्ययसर्वनाम्नाम् अकच् प्राक् टेः ५।३।७१

तिङश्च ५।३।५६ इत्येव। अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्य अपवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि सर्वके। विश्वके। उभयके। प्रातिपदिकात्, सुपः इति द्वयम् अपि इह अनुवर्तते। तत्र अभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य। अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः। स च मित्त्वादन्त्यातचः परो भवति। तुष्णीकाम् आस्ते। तूष्णीकां तिष्ठति। शीले को मलोपश्च वक्तव्यः। तूष्णींशीलः तूष्णीकः। तिङश्च ५।३।५६ इति प्रकृतमत्र सम्बध्यते। पचतकि। जल्पतकि।
लघु-सिद्धान्त-कौमुदी
अव्ययसर्वनाम्नामकच् प्राक् टेः १२३६, ५।३।७१

कापवादः। तिङश्चेत्यनुवर्तते॥
न्यासः
अव्ययसर्वनाम्नामकच्प्राक्? टेः। , ५।३।७१

"कस्यापवादः" इति। ननु च भिन्नदेशत्वात्? काकचोर्विरोधो नास्ति, न चासति विरोधे बाध्यबाधकभावः, ततः कथं कस्यापवादः? नैष दोषः; नैवावश्यं देशकृत एव विरोधो भवति, अपि त्वर्थकृतोऽपीत्युक्तम्()---"अकच्()प्रत्ययेन समानोर्थः" इति। अकचा द्योतिततवात्? तस्यार्थस्य कप्रत्ययो न भविष्यति। यद्यत्र प्रातिपदिकादित्यनुवृत्तेः प्रातिपदिकस्य प्राक्? टेरकज्विधीयते, त्वयका मयकेत्यादि न सिध्यति? अथ सुप इति प्राक्? टेर्विधीयेत, एवमपि युष्मकाभिरिति न सिष्यति? इत्यत आह--"प्रातिपदिकात्सुपः" इति। "द्वयमपि" इत्यादि। ननु च द्वयानुवृत्तावपि क्वचित्? सुबन्तस्यैव प्राक्टेर्भवति, क्वचित्? प्रातिपदिकस्य--इत्येषा व्यवस्था न लभ्यते? इत्याह--"तत्र" इत्यादि। वचनग्रहणं व्यवस्थार्थमिहानुवत्र्तते। तेन यत्र प्रातिपदिकस्य प्राक्टेरुत्पद्यमानेनार्थद्योतनं शक्यते कर्तुम्(), तत्र प्रातिपदिकस्य प्राक्? टेर्भवति; यत्र सुबन्तादुत्पन्नेनार्थद्योतनं शक्यं सम्पादयितुं, तत्र सुबन्तस्यैव। अकचश्चित्करणमन्तोदात्तार्थम्()। तद्धि सप्रकृतेः समुदायस्य। तथा च वक्ष्यति--"चितः सप्रकृतेर्बह्वकजर्थम्()" (वा। ६।१।१६३)। "तूष्णीमः काम्प्रत्ययो वक्तव्यः" इति। यथासम्भवं कुत्सादिष्वर्थेषु। चकारो देशविध्यर्थः। "शीले को मलोपश्च" इति। शीलमिति न स्वभाव एवोच्यते, किं तर्हि? नियमोऽपि। तथा हि--शीलवान्? भिक्षुरित्यभिधीयते, यः सम्यङ्नियममनुपालयतीति। तेन योऽपि नियमपरतया वाचं नियमयति सोऽपि तूष्णीक उच्यते॥
बाल-मनोरमा
अव्ययसर्वनाम्नामकच् प्राक् टेः , ५।३।७१

अव्ययसर्वनाम्नाम्। अनुवर्तत इति। "मण्डूकप्लुत्ये"ति शेषः। अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः। अकचि ककारादकार उच्चारणार्थः। चकार इत्। ककारान्तः प्रत्ययः। अयमपि प्रागिवादधिकारः।

तत्त्व-बोधिनी
अव्ययसर्वनाम्नामकच् प्राक् टेः १५१४, ५।३।७१

अव्ययसर्वनाम्नाम्। अनुवर्तते इति। मण्डूकप्लुत्येति बावः। "ङ्याप्()प्रातिपदिकात्" "सुपः"इति चानुवर्तत एव।