पूर्वम्: ५।३।९५
अनन्तरम्: ५।३।९७
 
सूत्रम्
इवे प्रतिकृतौ॥ ५।३।९६
काशिका-वृत्तिः
इवे प्रतिकृतौ ५।३।९६

कनित्यनुवर्तते। इवार्थे यत् प्रातिपदिकं वर्तते तस्मात् कन् प्रत्ययो भवति। इवार्थः सादृश्यं, तस्य विशेसणं प्रतिकृतिग्रहणम्। प्रतिकृतिः प्रतिरूपकं, प्रतिच्छन्दकम्। अश्व इव अयम् अश्वप्रतिकृतिः अश्वकः। उष्ट्रकः। गर्दभकः। प्रतिकृतौ इति किम्? गौरिव गवयः।
लघु-सिद्धान्त-कौमुदी
इवे प्रतिकृतौ १२४१, ५।३।९६

कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः। (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्)। अश्वकः॥
न्यासः
इवे प्रतिकृतौ। , ५।३।९६

"तद्विशेषणं प्रतिकृतिग्रहणम्()" इति। प्रतकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्()। गौरिवगवय इत्यत्रास्ति सादृश्यम्(), न तु प्रतिकृतिविषयम्(); न हि गौर्गवयप्रतिकृतिः। काष्ठादिमयं हि यत्? प्रतिच्छन्देकं तत्? प्रकृतिच्यते॥
बाल-मनोरमा
इवे प्रतिकृतौ , ५।३।९६

अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते। इवे प्रतिकृतौ। कन्स्यादिति। "अवक्षेपणे क"न्नित्यतस्तदनुवृत्तेरिति भावः। इवार्थौपमानत्वम्। तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम्। मृदादिनिर्मिता प्रतिमा प्रतिकृतिः। अ()आक इति। प्रतिकृतेः स्त्रीत्वेऽपि "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते" इति पुंलिङ्गत्वम्।

तत्त्व-बोधिनी
इवे प्रतिकृतौ १५३०, ५।३।९६

अ()आक इति। अ()आशब्दोऽस्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नाऽयं स्वार्थिक इत्येके। अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहिक इति वद()आशब्द एव प्रतिकृतौ वर्तते। प्रत्ययस्तु तस्यैवौपचारि कत्वस्य बोधक इत्याहुः। प्रतिकृतौ किम्()। गौरवि गवयः। तृणचर्मकाष्ठादिनिर्मितं प्रतिमाऽपरपर्यायं वस्तु प्रतिकृतिः। गवयस्तु नैवम्।