अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति। अर्धं नावः अर्धनावम्। अर्धं नपुंसकम्
२।२।२ इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वात् लिङ्गस्य।
अद्र्धाच्च। अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः। अर्धनावमिति। "अर्धं नपुंसक"मिति समासः, टच्, आवादेशः। अत्र परवल्लिङ्ग"मिति स्त्रीत्वामशङ्क्याह--क्लीबत्वं लोकादिति।