पूर्वम्: ५।४।१०६
अनन्तरम्: ५।४।१०८
 
सूत्रम्
अव्ययीभावे शरत्प्रभृतिभ्यः॥ ५।४।१०७
काशिका-वृत्तिः
अव्ययीभावे शरत्प्रभृतिभ्यः ५।४।१०७

शरतित्येवम् आदिभ्यः प्रातिपदिकेभ्यः टच् प्रत्ययो भवति अव्ययीभावे। शरदः समीपम् उपशरदम्। प्रतिशरदम्। उपविपाशम्। प्रतिविपाशम् अव्ययीभावे इति किम्? पारमशरत्। ये ऽत्र ज्ञयन्तः पठ्यन्ते तेषां नित्यार्थं ग्रहणम्। स्वर्यते च इदम् अव्ययीभावग्रहणम् प्राग् बहुव्रीहेः। शरत्। विपाश्। अनस्। मनस्। उपानः। दिव्। हिमवत्। अनडुः। दिश्। दृश्। उअतुर्। यद्। तद्। जराया जरश्च। सदृश्। प्रतिपरसमनुभ्यो ऽक्ष्णः। पथिन्। प्रत्यक्षम्। परोक्षम्। समक्षम्। अन्वक्षम्। प्रतिपथम्। परपथम्। संपथम्। अनुपथम्।
लघु-सिद्धान्त-कौमुदी
अव्ययीभावे शरत्प्रभृतिभ्यः ९२०, ५।४।१०७

शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च)। उपजरसमित्यादि॥
बाल-मनोरमा
अव्ययीभावे शरत्प्रभृतिभ्यः ६६९, ५।४।१०७

अव्ययीभावे। "राजाहः सखिभ्यष्ट"जित्यतष्टजित्यनुवर्तते। तदाह--शरदादिभ्य इति। अव्ययीभावे उत्तरपदं यच्छरदादिप्रकृतिकं सुबन्तं तदन्ताट्टच्स्यात्। स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः। उपशरदमिति। "अव्ययं विभक्ती"त्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठ()न्तेनाव्ययीभावः। टच्। टचः। समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वान्नाव्ययीभावादित्यम्। अपशरदित्यस्य अव्ययीभावसमासत्वाऽभावादनव्ययत्वात् "अव्ययानां भमात्रे टिलोपः" इति न भवति। विपाट्शब्दो नदीविशेषे वर्तते। "विपाशा तु विपाट् स्त्रियाम्" इत्यमरः। "लक्षणेनाभिप्रती" इति अव्ययीभावसमासः। शरदादिगणं पठति-शरदित्यादिना। अत्र झयन्तानां "झयः" इति विकल्पे प्राप्ते नित्यार्थः पाठः। "जराया जरश्चे"ति शरदादिगणसूत्रम्। जराशब्दस्य जरसादेशश्चाऽस्मिन्गणे वाच्य इत्यर्थः। उपजरसमिति। जरायाः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठ()न्तेनाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः। टचो विभक्तित्वाऽभावात्तस्मिन्परेऽप्राप्तेजरसि अनेन जरस्। टजन्ताद्यथायथं सुपोऽम्भाव इति भावः। "प्रतिपरसम्" इत्यपि गुणसूत्रम्। एतेभ्यः परस्याऽक्षिरशब्दस्य इह गणे पाठ इत्यर्थः। यस्येति चेति। टचस्तद्धितत्वात्तस्मिन्परे इकारस्य लोप इति भावः।

प्रत्यक्षमिति। अक्षिणी प्रतीति विग्रहः। अक्ष्णोरभिमुखमित्यर्थः। "लक्षणेत्थम्" इति कर्मप्रवचनीयत्वात् द्वितीया। "लक्षणेनांभिप्रती" इत्यव्ययीभावः। टच्, सुब्लुक् "यस्येति च" इति इकारलोपः। प्रत्यक्षशब्दाद्यथायथं सुबुत्पत्तिः, अम्भाव इति भावः। परमिति। व्यवहितमित्यर्थः। अविषय इति यावत्। अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः। ननु परशब्दस्याऽनव्ययत्वात्कथमिहाव्ययीभाव इत्यत आह--समासान्तविधानसामथ्र्यादिति। "प्रतिपरम"मिति परशब्दात्परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः। "अव्ययीभावे शरत्प्रभृतिभ्यः" इत्यव्ययीभावे टज्विहितः। तत्सामथ्र्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः। परोक्षमिति। अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः। टच्, सुब्लुक्। परशब्दस्य ओकारोन्तादेशः। पररूपम्। परोक्षाद्यथायथं सुप्। अम्भाव इति भावः। अर्शाअद्यचीति। परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद्धर्मप्रधानात् "अर्शाअदिभ्योऽच्" इति मत्वर्थीये अच्प्रत्यये कृते "यस्येति च" इत्यकारलोपे टापि च कृते परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः। अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमित#इ युक्तम्। "परोक्षे लिट्" इति सूत्रस्थबाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात्। समक्षमिति। अक्ष्णोर्योग्यमित्यर्थः। यथार्थेऽव्ययीभावः। टच्, इकारलोप इति भावः। अन्वक्षमिति। अक्ष्णोः पञ्चादित्यर्थः। पश्चादर्थेऽव्ययीभावः। शेषं समक्षवत्।

तत्त्व-बोधिनी
अव्ययीभावे शरत्प्रभृतिभ्यः ५९३, ५।४।१०७

प्रतिविपाशमिति। "लक्षनेनाभिप्रती---"इति समासः। "विपाशा तु विपाट् स्त्रिया"मित्यमरः। गणं पठति--शरदित्यादिना। अत्र ये झयन्तास्तेषां "झयः" इति विकल्पे प्राप्ते नित्यार्थः पाठः। इह "जराया जरस्", "प्रतिपरे"ति च द्वयं गणसूत्रम्। उपजरसमिति। जरायाः समीपमित्यर्थः। यस्येतिचेति। टचस्तद्धितकत्वात्तस्मिन्परे इकारलोप इति भावः। प्रत्यक्षमिति। वीप्सायां यथार्थत्वेन समासः। अक्ष्णो राभिमुख्यमित्यर्थे "लक्षणेनाभिप्रती---" इति वा समासः। अक्ष्णः परमिति। अविषय इत्यर्थः। वृत्तिविषये "अक्षि" शब्द इन्द्रियमात्रपरः। अव्ययाऽघटितसमुदायस्य कथमिहाव्ययीभावो, विधायकसूत्राऽभावादित्याशङ्क्याह--विधानसामथ्र्यादिति। समक्षमिति। अक्ष्णो योग्यम्। अन्वक्षमिति। अक्ष्णः पश्चादित्यर्थेऽव्ययीभावः।