पूर्वम्: ५।४।१०८
अनन्तरम्: ५।४।११०
 
सूत्रम्
नपुंसकादन्यतरस्याम्॥ ५।४।१०९
काशिका-वृत्तिः
नपुंसकादन्यतरस्याम् ५।४।१०९

अनः इत्येव। नपुंसकग्रहणम् उत्तरपदविशेषणम्। अन्नन्तं यद् नपुंसकं तदन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म।
लघु-सिद्धान्त-कौमुदी
नपुंसकादन्यतरस्याम् ९२३, ५।४।१०९

अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥
न्यासः
नपुंसकादन्यतरस्याम्?। , ५।४।१०९

बाल-मनोरमा
नपुंसकादन्तयतरस्याम् ६७२, ५।४।१०९

नपुंसकादन्यतरस्याम्। "अन" इत्यनुवृत्तं नपुंसकस्य विशेषणं। तदन्तविधिः। अन्नन्तात्क्लीबादिति लब्धम्। तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः। तदाह--अन्नन्तादित्यादि। उपचर्मम् उपचर्मेति। चर्मणः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्याव्ययीभावः। टचि टिलोपः। अम्भावः। टजभावे उपचर्मेति रूपम्।

तत्त्व-बोधिनी
नपुंसकादन्यतरस्याम् ५९५, ५।४।१०९

नपुंसकादन्य। नपुंसकग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य, अव्यभिचारादित्याह--अन्नन्तं यत्क्लीवमिति। अन्नन्तचेन चाव्ययीभावविशेषणात्तदन्तविधिरित्याह--तदन्तादिति। उपचर्ममिति। टचि टिलोपपोऽदन्तत्वादम्भावश्च। तत्त्व]।