पूर्वम्: ५।४।११०
अनन्तरम्: ५।४।११२
 
सूत्रम्
झयः॥ ५।४।१११
काशिका-वृत्तिः
ज्ञयः ५।४।१११

ज्ञयः इति प्रयाहारग्रहणम्। ज्ञयन्तादव्ययीभावादन्यतरस्याम् टच् प्रत्ययो भवति। उपसमिमिधम्, उपसमित्। उपदृषदम्, उपदृषत्।
लघु-सिद्धान्त-कौमुदी
झयः ९२४, ५।४।१११

झयन्तादव्ययीभावाट्टज्वा स्यात्। उपसमिधम्। उपसमित्॥
लघु-सिद्धान्त-कौमुदी
इत्यव्ययीभावः २ ९२४, ५।४।१११

लघु-सिद्धान्त-कौमुदी
अथ तत्पुरुषः ९२४, ५।४।१११

न्यासः
झयः। , ५।४।१११

बाल-मनोरमा
झयः ६७४, ५।४।१११

झयः। झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते। तदन्तविधिः। अन्यतरस्यामिति टजिति चानुवर्तते। तदाह--झयन्तादिति।