पूर्वम्: ५।४।१२९
अनन्तरम्: ५।४।१३१
 
सूत्रम्
ऊर्ध्वाद्विभाषा॥ ५।४।१३०
काशिका-वृत्तिः
ऊर्ध्वाद् विभाषा ५।४।१३०

ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुः इत्ययम् आदेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः।
न्यासः
ऊध्र्वाद्विभाषा। , ५।४।१३०

बाल-मनोरमा
ऊध्र्वाद्विभाषा ८६०, ५।४।१३०

ऊध्र्वाद्विभाषा। ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः। ऊध्र्वज्ञुरिति। ऊर्ध्वे जानुनी यस्येति विग्रहः।