पूर्वम्: ५।४।१३
अनन्तरम्: ५।४।१५
 
सूत्रम्
णचः स्त्रियामञ्॥ ५।४।१४
काशिका-वृत्तिः
णचः स्त्रियाम् अञ् ५।४।१४

कर्मव्यतिहारे णच् स्त्रियाम् ३।३।४३। इति णच् विहितः, तदन्तात् स्वार्थे अञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थम्, यावता णच् स्त्रियाम् एव विहितः, ततः स्वार्थिकस् तत्र एव भविष्यति? एवं तर्ह्येतज् ज्ञापयति स्वार्थिकाः प्रत्यया प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपि इति। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवता इत्येवम् आदि उपपन्नं भवति।
न्यासः
णचः स्त्रियामञ्?। , ५।४।१४

"व्यावक्रोशी" इति। "क्रश आह्वाने" (धा। पा। ८५६) इत्यस्माण्णच, लघूपधगुणः, णजन्तादञ्()। स च कृदग्रहणपरिभाषया (व्या। प। १२६) सगतिकाद्बवति। तेन सगतिकमेवेह प्रतिपदिकसंज्ञां प्रतिपद्यते, न कर्मव्यतिहार इति प्रतिषेधादेव वृद्धिप्रतिषेधयोरादिवृद्धिरेव भवति। "टिङ्ढाणञ्()" ४।१।१५ इति ङीप्()। "व्यावहासी" इति। "अत उपदायाः" ७।२।११६ इति वृद्धिः। "ततः" इति। णजन्तादिति यावत्()। "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवत्र्तन्ते (जै।प।वृ। ९५) इति कृत्वा। "एवं तर्हि" इत्यादिना स्त्रीग्रहणं ज्ञापकं दर्शयति। "तेन" इत्यादिना ज्ञापकस्य प्रयोजनम्()। "अतिवर्तन्तेऽपि" इति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवत्र्तन्तेऽणीति। यदि स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तिव्यभिचारो ज्ञाप्यते, ततो गुडादिभ्यः पुंलिङ्गाद्यनुगतेभ्यश्च स्वार्थे कल्पबादयो भवति, तेषां पुंल्लिङ्गवचनं च तदैव भवेत्? ततश्च गुडकल्पा द्रक्षेत्येवमादि नोपपद्यते। त()स्मस्तु ज्ञापिते लिङ्गान्तरञ्च भवतीति। तेन सर्वमेतदुपपन्नं भवति। आदिशब्देनापि तैलकल्पा, चातुर्वण्र्यम्(), त्रैलोक्यमित्येवमादीनां ग्रहणम्()॥
तत्त्व-बोधिनी
णचः स्त्रियामञ् १५३१, ५।४।१४

णचः स्त्रि। अनेन णजिति चकारोऽत्र विशेषणार्थं इति ध्वनितम्। स्त्रियां किम्?। व्यतिपाको वर्तते।