पूर्वम्: ५।४।१४२
अनन्तरम्: ५।४।१४४
 
सूत्रम्
स्त्रियां संज्ञायाम्॥ ५।४।१४३
काशिका-वृत्तिः
स्त्रियां संज्ञायाम् ५।४।१४३

स्त्रियाम् अन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययम् आदेशो भवति। अयोदती। फालदती। संज्ञायाम् इति किम्? समदन्ती। स्निग्धदन्ती।
न्यासः
स्त्रियां संज्ञायाम्?। , ५।४।१४३

अच्छन्दोऽपर्थमेतत्()। अय इव दन्ता अस्या "अयोदती" इति। शासन्तमेतत्()॥ "समदन्ती" इति। "नासिकोदर" ४।१।५५ इत्यादिना ङीष्()॥
बाल-मनोरमा
स्त्रियां संज्ञायाम् ८७१, ५।४।१४३

स्त्रियां संज्ञायाम्। शेषपूरणेन सूत्रं व्याचष्टे--दन्तस्येति। वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम्। अयोदतीति। फालदतीति। संज्ञाविशेषाविमो। समदन्तीति। समा दन्ता यस्या इति विग्रहः "नासिकोदरे"ति ङीष्।

तत्त्व-बोधिनी
स्त्रियां संज्ञायाम् ७५८, ५।४।१४३

समदन्तीति। "नासिकेदरे"त्यदिना ङीष्।