पूर्वम्: ५।४।१५२
अनन्तरम्: ५।४।१५४
 
सूत्रम्
नद्यृतश्च॥ ५।४।१५३
काशिका-वृत्तिः
नद्यृतश् च ५।४।१५३

नद्यन्तात् बहुव्रीहेः ऋकारान्तात् च कप् प्रत्ययो भवति। बह्व्यः कुमार्य अस्मिन् देशे बहुकुमारीकः देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि बहुकर्तृकः। तकारः मुखसुखार्थः।
न्यासः
नद्यृतश्च। , ५।४।१५३

बाल-मनोरमा
नद्यृतश्च ८२३, ५।४।१५३

नद्यृतश्च। नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी। "बहुव्रीहौ सक्थ्यक्ष्णो"रित्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते। तदाक्षिप्तमुत्तरपदं नद्यृद्भ्यां विशेष्यते। तदन्तविधिः। "उरः प्रभृतिभ्यः" इत्यतः कबित्यनुवर्तते। तदाह--नद्युत्तरपदादिति। नद्यन्तोत्तरपदादित्यर्थः। कप् स्यादिति। तद्धितः समासान्तश्चेत्यपि बोध्यम्। तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः। "नद्यन्ताद्बहुव्रीहे"रिति न व्याख्यातं, बहुधीवरीति बहुव्रीहेर्नद्यन्तत्वात्कबापत्तेः। "नद्यन्तोत्तरपदा"दिति व्याख्याने तु न दोषः, धीवन्शब्दयोत्तरपदस्य नकारान्तत्वेन नदीत्वाऽभावादिति शब्देन्दुशेखरे विस्तरः। पुंवद्भाव इति। पूरण्या रात्रेः समासवाच्यत्वाऽभावेन निषेधाऽभावादिति भावः।

तत्त्व-बोधिनी
नद्यृतश्च ७२३, ५।४।१५३

नद्युत्तरपदादिति। "नद्यन्ता"दिति नोक्तं, कप्रत्ययेन सह समासे कृते बहुव्रीहेरनद्यन्तत्वात्। उत्तरपदं तु नद्यन्तं भवत्येव, "समासे अन्तः समासान्तः"इति पक्षाश्रयणादिति बोध्यम्। दृढमिति। अदाढर्()निवृत्तिमात्रपरत्वेनात्र दृढशब्दप्रयोगान्न लिङ्गविशेषविवक्षेति भावः। लिङ्गविशेषविवक्षायां तु दृढभक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः।