पूर्वम्: ५।४।३१
अनन्तरम्: ५।४।३३
 
सूत्रम्
रक्ते॥ ५।४।३२
काशिका-वृत्तिः
रक्ते ५।४।३२

लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वा इत्येव, लोहितिका, कोहिनिका शाटी।
न्यासः
रक्ते। , ५।४।३२

"लाक्षादिना रक्ते" इति। ननु च लाक्षादिना य आधीयते लोहितो वर्णः, तस्यानित्यत्वात्? पूर्वसूत्रेणैव सिद्धम्()? यदा हि ते योगविशेषेण तथाविधं स्थैर्यमुत्पद्यते; यतः स्वाश्रयं न जहाति तदा नित्यत्वान्न प्राप्नोति, तदर्थमिदमुच्यते॥
बाल-मनोरमा
रक्ते , ५।४।३२

रक्ते। लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम्।

तत्त्व-बोधिनी
रक्ते १५६३, ५।४।३२

लिङ्गबाधनं वेति। लोहितादित्युपलक्षणम्। एतिका एनिकेत्यादेरपि सङ्ग्रह्रत्वात्। "सुबन्तात्तद्धिताः"इति पक्षस्य "निरवकाशत्वमपवादत्व"मिति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु "वर्णादनुदात्ता"दित्यास्यानन्तरमेव कनः प्रवृत्तेः कन्प्रतद्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाऽभावाच्च वार्तिकमिदं न कर्तव्यम्। अतएव ङ्याब्ग्रहणं व्यर्थमिति, स्वाम्पीति रूपं प्रबलमिति च मनोरमादावुक्तमिति दिक्।