पूर्वम्: ५।४।३५
अनन्तरम्: ५।४।३७
 
सूत्रम्
तद्युक्तात् कर्मणोऽण्॥ ५।४।३६
काशिका-वृत्तिः
तद्युक्तात् कर्मणो ऽण् ५।४।३६

व्याहृतार्थया वाचा यत् कर्म युक्तं, तदभिधायिनः कर्मशब्दात् स्वार्थे अण् प्रत्ययो भवति। कर्म एव कार्मणम्। वाचिकं श्रुत्वा तथैव यत् कर्म क्रियते तत् कार्मणम् इत्युच्यते। अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश् छन्दस्युपसङ्ख्यानम्। कुलाल एव कौलालः। वारुडः। नैषादः। कार्मारः। चाण्डालः। मैत्रः। आमित्रः। सान्नायानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्न वैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः। एते ऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते। सान्नाय्यम्। आनुजावरः। आनुषूकः। आष्टुभः। चातुष्प्राश्यः। राक्षोघ्नम्। वैयातः। वैकृतः। वारिवस्कृतः। आग्रायणः। आग्रहायणः। सान्तपनः।
न्यासः
तद्युक्तात्कर्मणोऽण्?। , ५।४।३६

"कर्मशब्दात्()" इति। एतेन कर्मण इति स्वरूपस्य ग्रहणम्(), नेप्सिततमस्येति दर्शयति। ननु च कर्मशब्दस्य संज्ञाशब्दत्वादीप्सिततमस्यैव ग्रहणं युक्तम्(), न स्वरूपस्येति? नैतदस्ति; इह हि "स्थानान्तात्()" ५।४।१० इत्यादेः सूत्रादितिकरणोऽनुवत्र्तते, तेनायमर्थो लभ्यते--ततश्चेद्विवक्षा भवतीति। कर्मशब्दाच्च प्रत्ययोत्पत्तौ लोके विवक्षा भवति, नेप्सिततमात्()। न हि तत उत्पन्नेनाणा व्याह्मतार्थवाचा युक्तं कर्म शक्यते द्योतयितुम्(), कर्मशब्दात्तूत्पन्नेन शक्यते। तस्मात्? स्वरूपस्यैव ग्रहणं युक्तम्()। "कार्मणम्()" इति। "अन्()" ६।४।१६ इति प्रकृतिभावः। "तथैव" इति। यथैव व्याह्मतार्थया वाचा प्रतिपादितम्()--एवं कत्र्तव्यमिति, तेनैव प्रकारेणेत्यर्थः। "अण्प्रकरणे" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम्()---प्रज्ञादेराकृतिगणत्वात्? कुलालादयस्तत्रैव द्रष्टष्याः। तेन "प्रज्ञादिभ्यश्च" (५।३।३८) इत्यण्? भविष्यतीति। यद्येवम्(), भाषायामपि स्यात्()? नैष दोषः; "विभाषा बहोः" ५।४।२० इत्यादिसूत्राद्विभाषेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा छन्दस्येव भविष्यति, न भाषायामिति। "सान्नाय" [सान्नय्य-काशिका, पदमञ्जरी च] इत्यादि। सान्नायानुजावरानुषूकानुष्टुभचातुष्प्राश्यराक्षोध्ववैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाश्छन्दसि भाषायाञ्चेष्यन्ते। तस्मात्सान्नायादयः। एषां प्रकृतयः प्रज्ञादिष्वेव द्रष्टव्याः। अत्र चाग्रायणाग्रहायण--इत्यत्रेकारान्ताभ्यामाग्रायण्यग्रहायणीशब्दाभ्यामन्यत्राकारान्तेभ्योऽनुजावरादिभ्यः प्रत्ययः। सान्नाय्यशब्दस्य चेहान्तोदात्तार्थ ग्रहणम्()। रूपं तु "पाय्यसान्नाय्य" ३।१।१२९ इति निपातनादेव सिद्धम्()॥ष