पूर्वम्: ५।४।४३
अनन्तरम्: ५।४।४५
 
सूत्रम्
प्रतियोगे पञ्चम्यास्तसिः॥ ५।४।४४
काशिका-वृत्तिः
प्रतियोगे पञ्चम्यास् तसिः ५।४।४४

प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात् तसिः प्रत्ययो भवति। प्रद्युम्नो वासुदेवतः प्रति। अभिमन्युरर्जुनतः प्रति। वाग्रहणानुवृत्तेर् विकल्पेन भवति। वासुदेवादर्जुनादित्यपि भवति। तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्। आदौ आदितः। मद्यतः। पार्श्वतः। पृष्ठतः। आकृतिगणश्च अयम्।
न्यासः
प्रतियोगे पञ्चम्यास्तसिः। , ५।४।४४

"प्रद्युम्नो वासुदेवतः प्रति" इति। "प्रतिनिधिप्रतिदाने च यस्मात्()" २।३।११ इति पञ्चमी, ततस्तसिः। तसेरिकारो मुखमुखार्थः। ननु च सकारस्येत्संज्ञा मा भूदित्येवमर्थः स्यात्()? नैतदस्ति; प्रयोजनाभावादेव हि तस्येत्संज्ञा न भविष्यति। "आद्यादिभ्य उपसंख्यनम्()" इति। आद्यादिभ्यसतसेरुपसंख्यानमिति प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()--उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन आद्यादिभास्तसिर्भविष्यतीति। अनुक्तसमुच्चयार्थत्वे चकारस्य "तस्यादित उदात्तमर्धह्यस्वम्()" १।२।३२ इति निर्देशः॥