पूर्वम्: ५।४।४९
अनन्तरम्: ५।४।५१
 
सूत्रम्
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः॥ ५।४।५०
काशिका-वृत्तिः
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ५।४।५०

कारणस्य विकाररूपेण अभूतस्य तदात्मना भावः अभूततद्भावः। सम्पद्यतेः कर्ता सम्पद्यकर्ता। सम्पद्यकर्तरि वर्तमानात् प्रातिपदिकातभूततद्भावे गम्यमाने कृभ्वस्तिभिर् धातुभिर् योगे च्विः प्रत्ययो भवति। अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति। मलिनं शुक्लीकरोति। शुक्लीभवति। शुक्लीस्यात्। घटीकरोति मृदम्। घटीभवति। घटीस्यात्। अभूततद्भावे इति किम्? शुक्लं करोति। न अत्र प्रकृतिर् विवक्षिता। कृभ्वस्तियोगे इति किम्? अशुक्लः शुक्लो जायते। सम्पद्यक्र्तरि इति किम्, यावता अभूततद्भावसामर्थ्याल् लब्धम् एव सम्पद्यकर्तृत्वम्? कारकान्तरसम्पत्तौ मा भूत्, अदेवगृहे देवगृहे सम्पद्यते। देवगृहस्याधेयविशेषसम्बन्धेन अभूततद्भावः सत्त्वाधिकरणस्य, न कर्तुः इति?।
लघु-सिद्धान्त-कौमुदी
कृभ्वस्तियोगे संपद्यकर्तरि च्विः १२४५, ५।४।५०

(अभूततद्भाव इति वक्तव्यम्)। विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे॥
न्यासः
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः। , ५।४।५०

"कारणस्य विकाररूपेणाभूतस्य" इति। कारणम्()=प्रकृतिः, तस्यैवोत्तरमवस्थान्तरम्()=विकारः। तेन विकाररूपेणाभूतस्याजातस्येत्यर्थः। कुतः पुनरयमभूततद्भावविशेषो लभ्यते? अभूतग्रहणादिह हि भावः=जन्म, सत्ता वा। यदि हि सत्ता भावः स्यात्(), भ्वस्तिभ्यामेव सम्बन्धः स्यात्(), न करोतिना। न हि यत्? क्रियते सा सत्ता। धातुत्रयोपादाने च सति यस्मिन्नर्थे गृह्रमाणे त्रिभिरपि धातुभिर्योगोऽस्ति स एवाश्रयितुं युक्तः; स च जन्मैव, न सत्ता। कृगरहणादेष विशेषो लभ्यते। "तदात्मना भावः" इति। तच्छब्देन विकारः परामृश्यते, स एव विकारः; आत्मा=स्वभावः, तेन विकारात्मा=अभूततद्भावः। अपि तु लब्धसत्ताकस्यैव कारणस्य प्रागप्रतिपन्नविकारस्योत्तरकालविकारभूमावाप्तिरभूततद्भाव इत्युक्तं भवति। तेन यत्र प्रकृतिर्न विवक्ष्यते, तत्र प्रत्यो न भवति, यथाशुक्लं करोतीति प्रत्युदाहरणे। न हि प्रकृतावत्र विवक्षितायामेवंविधोऽभूततद्भावो गम्यते। तच्छब्देन प्रकृतिविकारयोरभेदविवक्षा प्रतिपाद्यते। तेन यत्र प्रकृतिविकाररूपमापद्यमाना तस्मादभिन्ना विवक्ष्यते, तत्रैव प्रत्ययो भवति; न तु यत्र कारणतः कार्यस्य भेदो विवक्ष्यते। यत्र तु भेवः, यथा--पटं करोतीति, न तत्र। "सम्पद्यतेः कत्र्ता सम्पद्यकत्र्ता" इति। कथं पुनस्तिङ्न्तेन समासः? कथं च तिङो लोपः? सौत्रत्वात्()? निर्देशस्य सत्त्वात् सर्वमिदमुपपद्यते। अथ वा--सम्पूर्वात्? पदेरत एव निपातनाद्यत्प्रत्ययः, तदन्तस्यायं विशेषमसमासः। तत्? तिङ्न्तस्य वृत्तिकरणे त्वर्थप्रदर्शनमात्रं कृतम्(); न पुनरेतद्विग्रहवाक्यम्()। "सम्पत्तिः" इति वक्तव्ये, "सम्पद्यकत्र्तेरि" इत्युक्तं वैचित्र्यार्थम्? "शूक्लीकरोति" इति। "अस्य च्वौ" ७।४।३२ इतीत्त्वे "च्वौ" ७।४।२६ इति दीर्घत्वम्()। चव्यन्तस्याव्ययत्वात्? सोर्लोपः। "नात्र प्रकृतिविवक्षिता" इति। विकारमात्रस्य विवक्षितत्वात्()। यत्र च प्रकृतिर्न विवक्ष्वते, नात्राभूततद्भावो गम्यत इति न भवति प्रत्ययः। "अभूततद्भावसामत्र्याल्लब्धमेव" इत्यादि। यो ह्रविकाररूपेण भूतो विकारात्माना भवति, स नियोगतस्तेन रपेण सम्पद्यमानः सम्पद्यकत्र्ता भवतीत्येतत्? सामथ्र्यात्? स्वरूपान्तरेण सम्पद्यते। तत् कर्त्तृसंज्ञकमेव भवतीति नायं नियोगत इत्यभिप्रायेणाह--"कारकान्तरसम्पत्तौ मा भूत्()" इति। "अदेवगृहे" इत्यादि। अत्र देवगृहस्य देवताराधनत्वेनाभूतस्य प्रागुत्तरकालं देवतादेयसम्बन्धेन तदात्मकत्वमापद्यमानस्य भवत्ययमभूततद्भावः; स त्वधिकरणस्य, न कर्त्तुः। तथा हि--तद्रूपान्तरमापद्यमानमपि न कर्त्तृसंज्ञम्(), किं तर्हि? अधिकरणसंज्ञमेव; अन्यथा सप्तमी न स्यात्()। च्वौ इकार उच्चारणार्थः। चकारः प्रकृतदेरन्तोदात्तार्थऋः। वकारस्य "वेरपृक्तस्य" ६।१।६५ इति लोपः॥
बाल-मनोरमा
कृभ्वस्तियोगे संपद्यकर्तरि च्विः , ५।४।५०

कृभ्वस्तियोगे। अभूतेति। येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः। एवंच यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकाराऽभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते। संपद्यकर्तरीत्येकं पदम्। संपदनं--सम्पद्यः। संपूर्वकात्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वाच्छ्यन्। संपद्यस्य कर्तेति षष्ठीसमासः।

संपद्यमाने वर्तमानादिति यावत्। केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम्, "अभूततद्भावे" इति वार्तिकात्प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते। तत्र विकारवाचकादेव प्रत्ययः, अस भुवी"ति धातुभिर्योगे सतीत्यर्थः। "च्विप्रत्यये चकार इत्, इकार उच्चारणार्थः।

तत्त्व-बोधिनी
कृभ्वस्तियोगे संपद्यकर्तरि च्विः १५७५, ५।४।५०

कृभ्वस्तियोगे। योग इति किम्()। अशुक्लः शुक्लो जायते।