पूर्वम्: ५।४।५४
अनन्तरम्: ५।४।५६
 
सूत्रम्
देये त्रा च॥ ५।४।५५
काशिका-वृत्तिः
देये त्रा च ५।४।५५

तदधीनवचने च इति अनुवर्ते। तस्य विशेषणं देयग्रहणम्। दातव्यं देयम्। तदधीने देये त्रा प्रत्ययो भवति, चकारात् सातिश्च कृभ्वस्तिभिः सम्पदा च योगे। ब्राह्मनेभ्यो देयम् इति यद् विज्ञातम्, तद् यदा तेषा समर्पणेन तदधीनं क्रियते तदात्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति। ब्राह्मणत्रा करोति। ब्राह्मणत्रा भवति। ब्राह्मणत्रा स्यात्। ब्राह्मणत्रा सम्पद्यते। देये इति किम्? राजसाद् भवति राष्ट्रम्।
न्यासः
देये त्रा च। , ५।४।५५

"राजसाद्भवति राष्टम्()" इति। पूर्वेण सातिरेव भवति॥
बाल-मनोरमा
देये त्रा च , ५।४।५५

देये त्रा च। तदधीनवचन इत्येवानुवर्तते। कृभ्वादियोगे इति। कृभ्वस्तिभिः संपदा च योगे इत्यर्थः।