पूर्वम्: ५।४।७५
अनन्तरम्: ५।४।७७
 
सूत्रम्
अक्ष्णोऽदर्शनात्॥ ५।४।७६
काशिका-वृत्तिः
अक्ष्णो ऽदर्शनात् ५।४।७६

अचित्यनुवर्तते। दर्शनादन्यत्र यो ऽक्षिशब्दः तदन्तातच् प्रत्ययो भवति। लबणाक्षं। पुष्कराक्षम्। उपमितं व्याघ्रादिभिः इति समासः। अदर्शनातिति किम्? ब्राह्मणाक्षि। कथं कबराक्षम्, गवाक्षम् इति? अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेन अपि हि दृश्यते, गवाक्षेण च? न एष दोषः। चक्षुःपर्यायवचनो दर्शनशब्दः प्राण्यङ्गवचन इह अश्रीयते।
लघु-सिद्धान्त-कौमुदी
अक्ष्णोऽदर्शनात् ९९७, ५।४।७६

अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः। []गवामक्षीव गवाक्षः’॥
न्यासः
अक्ष्णोऽदर्शनात्?। , ५।४।७६

"अदर्शनात्()" इति प्रतिषेधः क्रियते। "कबराक्षम्(), गवाक्षम्()" इति। रूढिउब्दावेतौ, नात्रावयवार्थेऽभिनिवेशः कार्यः। कबराक्षं गवाक्षमिति न सिध्यतीत्यभिप्रायः। स्यादेतत्()--दर्शनप्रतिषेधात्? सिद्धमेतत्(), दृश्यतेऽनेनेति; न दर्शनम्(), न च कबराक्षेम दृश्यते, नापि गवाक्षेण? इत्यत आह--"तेनापि" इत्यादि। दर्शनश्ब्दोऽयं चक्षुषि प्राण्यङ्गे प्रसिद्धः। तथा हि दर्शनं प्रयुङ्क्ते चक्षुग्र्राह्रमपि। तस्मात्? प्रसिद्धिवशेन चक्षुष्पर्यायो दर्शनशब्दः, स इहाश्रीयते॥
बाल-मनोरमा
अक्ष्णोऽदर्शनात् ९३१, ५।४।७६

अक्ष्णोऽदर्शनात्। "अदर्शना"दिति च्छेदः। दृश्यतेऽनेनेति दर्शनं--चक्षुः। करणे ल्युट्। अचक्षुर्वाचिन इति फलितम्। तदाह--अचक्षुःपर्यायादिति। गवामक्षीवेति। अक्षिशब्दस्तत्सदृशे लाक्षणिकैति सूचयितुमिवशब्दः प्रयुज्यते। मुख्यवृत्त्या चक्षुर्वाचकत्वाऽभावादच्। पुंस्त्वं लोकात्।

बाल-मनोरमा
तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः ७७६, ५।४।७६

अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते--तत्पुरुषस्याङ्गुलेः। "अच्प्रत्यन्ववपूर्वा"दित्यतोऽजित्यनुवर्तते, "समासान्त" इत्यधिकृतम्। तेन समासस्य अन्तावयव इति लभ्यते। प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी। अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः। तदाह संख्याव्ययादेरिति। सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः। द्व्यङ्गुलमिति। तद्धितार्थ" इति द्विगुः। प्रमामे द्वयसज्दघ्नञ्मात्रचः "प्रमाणेलो द्विगोर्नित्य"मिति लुक्। द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे "यस्येति चे"ति इकारलोपः। निरङ्गुलमिति। "निरादयः क्रान्ताद्यर्थे" इति समासः अच् इलोपः।

तत्त्व-बोधिनी
अक्ष्णोऽदर्शनात् ८०७, ५।४।७६

अक्ष्णो। दृश्यतेनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पर्युदासादमुख्यस्य ग्रहणमित्याशयेनाह---अचक्षुःपर्यायादिति। गवाक्ष इति। गावः--किरणाः। अक्षिशब्दो रन्ध्रवाची। षष्ठीसमासः।