पूर्वम्: ६।१।१०१
अनन्तरम्: ६।१।१०३
 
सूत्रम्
वा छन्दसि॥ ६।१।१०२
काशिका-वृत्तिः
वा छन्दसि ६।१।१०६

दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्नदीर्घो न भवति। मारुतीश्चतस्रः पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वाराही। उपानही। वाराह्यौ। उपानह्यौ।
न्यासः
वा छन्दसि। , ६।१।१०२

"मारुतीः" इति। मरुद्()देवता आसामिति "सास्य देवता" (४।२।२४) इत्यण्? "टिड्ढाणञ्()" ४।१।१५ इति ङीप्(); सवर्णदीर्घत्वम्()। "वाराहीः" [वाराही--काशिका पदमंजरी च] इति। वराहस्य विकार ति "अवयवे च प्राण्योषधिवृक्षेभ्यः" ४।३।१३३ इत्यण्(), पूर्ववन्ङीप्()। "उपानही" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्()॥