पूर्वम्: ६।१।११
अनन्तरम्: ६।१।१३
 
सूत्रम्
दाश्वान् साह्वान् मीढ्वांश्च॥ ६।१।१२
काशिका-वृत्तिः
दाश्वान् साह्वान् मीड्वांश् च ६।१।१२

दाश्वान् साह्वान् मीड्वानित्येते शदाः छन्दसि भाषायाम् च अविशेषेण निपायने। दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसौ अद्विर्वचनम् अनिट्त्वं च निपात्यते। दाश्वांसो दाशुषः सुतम् इति। साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनम् अनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीड्वानिति मिह सेचने इत्येतस्य अद्विर्वचनम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनात्। मीड्वस्तोकाय तनयाय मृल। एकवचनम् अतन्त्रम्। कृञादीनां के द्वे भवत इति वक्तव्यम्। क्रियते ऽनेन इति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च घञर्थे कविधानम् इति कः प्रत्ययः। चरिचलिपतिवदीनां द्वित्वमच्याक् च अभ्यासस्य। चरादीनां धातूनाम् अपि प्रत्यये परतः द्वे भवतः। अभ्यासस्य आगागमो भवति। आगागमविधानसामर्थ्याच् च हलादिशेषो न भवति। हलादिशेषे हि सयागमस्य आदेशस्य च विशेषो न अस्ति। चराचरः। चलाचल। पतापतः। वचावदः। वेति वक्तव्यम्। तेन चरः पुरुषः, चलो रथः , पतं यानम्, वदो मनुष्यः इत्येवम् आदि सिद्धं भवति। हन्तेर् घत्वं च। हन्तेरचि प्रत्यये परतो द्वे भवतः, अभ्यासस्य च हकारस्य च घत्वम्, आक् चागमो भवति। परस्य अभ्यासाच् च ७।३।५५ इति कुत्वम् घनाघनः क्षोभणश्चर्षणीनाम्। पाटेर् णिलुक् चोक् च दीर्घश्च अभ्यासस्य। पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य च ऊगागमो दीर्घश्च भवति। पाटूपटः।
न्यासः
दा�आआन्? साह्वान्? मीढ्वांश्च। , ६।१।१२

"अविशेषेण निपात्यन्ते" इति। विशेषानुपादानात्()। "अनिट्त्वं च" इति। "वस्वेकाजाद्घसाम्()" (७।२।६७) इतीट्? प्राप्नोति, अतस्तदभावो निपात्यते। ननु च कृतद्विर्वचनानामेकाचामिङ् विधास्यते, अयंचाकृतद्विर्वचनमेकाज्? भवति; अकृतद्विर्वचनत्वात्(), तदयुक्तमनिट्त्वनिपातनम्()? नैतदस्ति; लिटि हि श्रूयमाणैकाजुपलक्षणार्थं तत्र कृतद्विर्वचनग्रहणं कृतम्()। अस्ति चात्र लिटि श्रूयमाणैकाच्त्वमिति कात्रायुक्तता? "परस्मैपदम्()" इति। सहेरात्मनेपदित्वात्? परस्मैपदं न प्राप्नोतीत्यतस्तन्निपात्यते। किं पुनः समाथ्र्यमित्याह--"हलादिशेषः" इत्यादि। यदि हलादिशेषः स्यात्(), एवञ्च सत्यामाकारादेशमेव कुर्यात्(), न हि हलादिशेषे सत्यागमस्यादेशस्य वा विशोषोऽस्ति। णिलुक्चेति। "णेरनिटि" ६।४।५१ इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेनोपधावृद्धिर्माभूदित्येवमर्थम्()। लोपे हि सति प्रत्यलक्षमेनोपधावृद्धिः स्यात्(), लुकि तु "न लुयताङ्गस्य" १।१।६२ इति प्रतिषेधान्न भवति॥