पूर्वम्: ६।१।१२८
अनन्तरम्: ६।१।१३०
 
सूत्रम्
स्यश्छन्दसि बहुलम्॥ ६।१।१२९
काशिका-वृत्तिः
स्यश् छन्दसि बहुलम् ६।१।१३३

स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति। उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। एष स्य ते पवत इन्द्र सोमः। न च भवति, यत्र स्यो निपतेत्।
लघु-सिद्धान्त-कौमुदी
अवङ् स्फोटायनस्य ४७, ६।१।१२९

पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम्? गवि॥
न्यासः
स्यश्छन्दसि बहुलम्?। , ६।१।१२९

"स्यः" इति त्यदः प्रथमैकवचनम्(), तस्यानुकरणम्()। तस्माच्च या षष्ठ्युत्पन्ना तस्याः "सुपां सुलुक्()" ७।१।३९ इत्यादिना लुक्()। अनुत्पत्तिरेव तस्याः, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्(), यथा--गवित्ययमाहेति। उदाहरणे तु पूर्ववत्? सत्वादि कार्यम्()॥