पूर्वम्: ६।१।१६०
अनन्तरम्: ६।१।१६२
 
सूत्रम्
चतुरः शसि॥ ६।१।१६१
काशिका-वृत्तिः
चतुरः शसि ६।१।१६७

चतुरः शसि परतो ऽन्त उदात्तो भवति। चतुरः पश्य। चतस्रादेशे आद्युदात्तनिपातनाद् यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति चतस्रः पश्य इति।
न्यासः
चतुरः शसि। , ६।१।१६१

"चतेरुरन्()" (द।उ।८।७८) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः, तस्य हि शसि परतोऽनेनान्तो दात्तत्वं विधीयते। अथेह कस्मान्न भवति--चतरुआः पश्येति, चतरुआआदेशेऽपि चतुरः कृते स्थानिवद्भावेन न प्राप्नोति? इत्यत आह--"चतरुआआदेश" इत्यादि। चतरुआआदेश कृत आद्युदाततनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधक इत्याद्युदात्तत्वनिपातनाच्यतन्नः पश्येत्यत्रायं स्वरो न भवति। अथ वा पुरावात्? "अचि र ऋतः" ७।२।१०० इति रादेशे कृत ऋकारसय तावन्न भवितव्यम्()। अकारस्यापि "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इति यणादेशस्य स्थानिवद्भावदृकारेम व्यवधाने सति न भवितव्यमेव। ननु च "न पदान्तद्विर्वचन" (१।१।५८) इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः? नैतदस्ति; उक्तं हि तत्र "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्()" (का।वृ।१।१।५८) इति, न चायं लोपाजादेशः॥