पूर्वम्: ६।१।१८
अनन्तरम्: ६।१।२०
 
सूत्रम्
स्वपिस्यमिव्येञां यङि॥ ६।१।१९
काशिका-वृत्तिः
स्वपिस्यमिव्येञां यङि ६।१।१९

ञिष्वप शये, स्यमु, स्वन, ध्वन शब्दे, व्येञ् संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति। सोषुप्यते। सेसिम्यते। वेवीयते। यङि इति किम्? स्वप्नक्।
न्यासः
स्वपिस्यमिव्येञां यङि। , ६।१।१९

"स्वप्नक्()" इति। "स्वपितृषोर्नजिङ्" ३।२।१७२
तत्त्व-बोधिनी
स्वपिस्यमिव्येञां यङिः ४०७, ६।१।१९

स्()वपिस्यमि। यङि किम्?। स्वप्नक्।सेसिम्यते इति। "स्यमु शब्दे" दन्त्याऽजन्तसदित्वाऽभावेनाऽषोपदेशत्वान्न यङलुगर्थम्। अत एव "न लुमते"ति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव। चेकीतः।